This page has been fully proofread once and needs a second look.

३८
 
वायुस्तुतिः
 
शालते शोभत इत्यपि व्याचक्षते । इह भुवि हनुमानिति ख्यातः अग्र्यः

प्रथमोऽवतारः । हन गतौ । हननं हनुरवगतिः । तद्वान् हनुमान् ।

आधिक्येऽधिकम् । तेन हनूमान् । अवधारणे वा । 'दीर्घं प्लुतं च हिङ्कारो

बिन्दुरप्यवधारणे' इति हि स्मरन्ति । 'हनशब्दो ज्ञानवाची हनूमान्


मतिशब्दितः' इति च प्राचां वचनम् । तमवतारं वन्दे । माहात्म्यं विज्ञाय

सस्नेहानां सतां देहिनां प्रत्यहमन्तर्बहिरहितं निर्दछन् । अनभिभाव्यत्वं

सहः । अपराजितत्वमित्येतत् । 'वृजिनं दुरितं दुष्कृतमघमंहः' इति च । मोहो

वैचित्त्यं तत्वविस्मृतिः । तावपहन्ति । अंहसा निमित्तेन यो मोहस्तमपहन्ति

वा । अद्यापि किम्पुरुषे वसन् । भक्त्यै स्पृहयति । द्विविधोऽपि साधुः

प्रयोगः । कर्मत्वे विवक्षिते द्वितीया । सम्प्रदानत्वे चतुर्थीति । न हि महतां

विवक्षां निजिघृक्षन्ति लघवः ॥ १७ ॥
 
-
 

 
प्राक् पञ्चाशत् -सहस्रैर्व्यवहितममितं योजनैः पर्वतं त्वं

यावत् सञ्जीवनाद्यौषध-निधिमधिक प्राण लङ्कामनैषीः ।

अद्राक्षीदुत्पतन्तं तत उत गिरिमुत्पाटयन्तं गृहीत्वाऽऽ-

यान्तं खे राघवाङ्घ्रौ प्रणतमपि तदैक -क्षणे त्वां हि लोकः ॥
 

॥ १८ ॥
 

 
(कविक.) व्यापारान्तरं विज्ञापयति- प्राक् पञ्चाशदिति । हे अधिकप्राण

अधिकबल, त्वं यावत् यदा, प्राक् पूर्वम् । पञ्चाशत्सहस्रैः पञ्चाशत्सङ्ख्याकैः

सहस्रैः योजनैः व्यवहितं अन्तरितम् । अमितं कीदृशोऽयं कुत्र वर्तत इति

पूर्वमविज्ञातरूपम्'[^१] । सञ्जीवनं मृतसञ्जीवनं[^२] आदिर्येषां तेषामौषधानां'[^३] निधिं
 

 
[^
.] 'अविज्ञातस्वरूपम्' इति पा ।
 

 
[^
.] इतः परं क्वचित् 'मृतसञ्जीवनी मुख्या सन्धानकरिणी परा। सवर्णकरणी चेति विशल्यकरणीति च'

इति श्लोकः पठ्यते ।
 

 
[^
.
 
] 'तेषामोषधीनाम्' इति पा. । तदा 'सञ्जीवनाद्योषधिनिधिम्' इति मूलपाठः स्यात् ।