This page has not been fully proofread.

३७
 
श्लो.१७
 
इति हन्तेर्डप्रत्ययः । सहो बलमस्यास्तीति सहस्वान् । 'सहो बलं सहो मार्ग : '
इत्यमरः । अग्य्रः आदिमः । हनूमानिति ख्यातः प्रसिद्धः । हनुर्ज्ञानम् ।
तदस्यास्तीति हनुमान्' । तदुक्तं भाववृत्ते-
'हनशब्दो' ज्ञानवाची हनुमान् मतिशब्दितः ।
'रामस्य स्वृतरूपस्य वाचस्तेनानयन्त हि' इति ।
 
ते तव यः अवतारः प्रादुर्भावः । अद्यापि इह अस्मिन् भूलोके । रामे रघु-
पतौ । महतीं समाधिकरहित भक्तिं स्पृहयति इच्छति । इदानीमपि
किम्पुरुषखण्डे श्रीरघुपतिं भक्त्या भजत इति भावः । भक्तिशब्दस्य
'स्पृहेरीप्सितः' (अ.सू.१.४.३६) इति सम्प्रदानसञ्ज्ञा न भवति । ईप्सित-
तम इति विवक्षायां 'कर्तुरीप्सिततमं कर्म' (अ.सू. १.४.४९) इति कर्म-
सञ्ज्ञया बाधितत्वात् । तं अवतारं अहं वन्दे स्तौमि नमामि च ॥ १७ ॥
(स्तुतिचं.) अथ प्रथमावतारं प्रस्तौति । देवैरपि महितं पूजितं महदस्य
पौरुषम् । बाहुषाळीति भाव्यमिति भाति । भगवत्पादप्रयोगसंवादात् । बाहुभ्यां
१. स एव हनूमान् । ज्ञानाधिक्यद्योतनाय दैर्घ्यम् । तदुक्तम्- 'आधिक्येऽधिकमित्येव हरिणा सूत्र-
मीरितम्' इति ।
२. 'हनुशब्दो- ' इति पा. ।
 

 
३. 'रामे श्रीरामदेवे' इति पा. ।
 
४. 'समानाधिकरहिताम्' इति पा ।
पदमञ्जर्यामेवं स्थितम् । ननु भर्तृहरिः सम्प्रदानसञ्ज्ञया कर्मसञ्ज्ञाया एव बाधितत्वमाह । सत्यमाह। किं
तेन? तेन चतुर्थ्या भाव्यम् । न भाव्यम् । परेण पूर्वं हि बाध्यते । परा च कर्मत्वसञ्ज्ञा । तत्कथं तामेव
पूर्वतनं सम्प्रदानत्वं बाधते? ननु सामान्यं विशेषो बाधते । सम्प्रदानत्वं च विशेषः । नैष दोषः ।
सामान्यमबाधित्वैव हि विशेषोऽवतिष्ठते । नहि पाण्डवाः पाण्डवा इत्येतावता न कुरुवो भवन्ति ।
विवक्षैव हि सा यदिदं सामान्यमयं विशेष इति । ननु तर्हि सूत्रमिदमवक्तव्यं स्यात् । 'क्रियया यम-
भिप्रैति' इति वार्तिकेनैव सम्प्रदानत्वं सेत्स्यतीति । ननु विपरीतमुच्यते । पूर्वं हि पाणिनिः सूत्राणि
प्रणिनाय । परस्ताद्वार्तिकं कात्यायनः । नहि पूर्वं परेण गतार्थमिति शक्यं वक्तुम् । अतः कर्मसञ्ज्ञव
बाधिकेति युक्तम् । अत एव वार्तिकस्यैव गतार्थतां महाभाष्यकृदनुजानाति स्म । अतस्तस्य तस्मै तं च
स्पृहयतीति त्रिविधोऽपि प्रयोगः साधुः ।
 
६. क्वचिदतः परं 'वदि अभिवादनस्तुत्योरिति धातुः' इत्यधिकम्।
 
19