This page has been fully proofread once and needs a second look.

३६
 
बायुस्तुतिः
 
स्पदं च दर्शयति जपाकुसुममिव सन्निहितमलीकमेव लौहित्यं स्फटिकस्येति

ये मन्यन्ते ते वाचस्पतिमतानुसारिणोऽन्यथाज्ञाः । एतद्दुर्मतखण्डनप्रकारस्तु

अप्रकृतत्वात् स्तोत्रव्याख्याने न लिख्यते ॥ १६ ॥
 

 
(स्तुतिचं.) योग्यतातारतम्यमपेक्ष्य यथायोग्यं मुक्तौ सुखयसि । मिश्रबुद्धीनपि

यथायोग्यं नाकनरकभूगोचरानाधत्से विदधासि । तामिस्रान्धतामिस्रादि-

नामनि महानरके यथायोग्यमन्यथाज्ञानिन उत्तरोत्तरं दुःखयसि । तदपि

विष्णोराज्ञाभिः । न स्वयं रागद्वेषदुराग्रहग्रहग्रस्ततया । उक्तं हि–'वायुश्च

तदनुज्ञया' इति । इत्थमुद्घोषयत् श्रुतिशतमितिहासमादिपदेन पुराणानि

चाऽकर्णयामः ॥ १६ ॥
 

 
वन्देऽहं तं हनुमानिति महित -महा-पौरुषो बाहु-पाषाळी

ख्यातस्तेऽग्य्रोऽवतारः सहित इह बहु -ब्रह्म-चर्य्यादि-धर्म्मैः ।

सस्नेहानां सहस्वानहरहरहितं निर्द्दहन् देह-भाजा-

मंहो -मोहापहो यः स्पृहयति महतीं भक्तिमद्यापि रामे ॥ १७ ॥
 
-
 

 
(कविक.) इतः परं पञ्चश्लोक्या वायोरादिमे हनुमदवातारेऽद्भुतव्यापारान्

वर्णयति –- वन्देऽहमिति । हे श्रीवायो, महितं सम्भावितं महापौरुषं

महापुरुषकर्म यस्य सः । बाहुभ्यां शालते शोभत इति बाहुशाली ।

अतिशयबाहुबलपराक्रम इत्यर्थः । बहुभिः, ब्रह्मचर्यं आदिर्येषाम्, आदिशब्देन

सत्यादीनां ग्रहणम्, तैः धर्मैः सहितः समेतः । सस्नेहानाम्- स्नेहो भक्तिः

तेन सह वर्तन्ते ये तेषां भक्तिमताम् । देहभाजां प्राणिनाम् । अहितं अनिष्टम्,

अहरहः प्रतिदिनम् । 'नित्यवीप्सयोः' (अ.सू.८.२.४ ) इति द्विवचनम्' ।
[^१] ।
निर्दहन् भस्मीकुर्वन् । अंहः दुरितम् । 'अंहोदुरितदुष्कृतम्' इत्यमरः । मोहः

अज्ञानम् । तावपहन्याद् यः स तथोक्तः"[^२] । 'आशिषि हनः' (अ.सू.३.२.४९)
 

 
[^
.] व्याप्तिर्हि वीप्सा । तच्च कार्च्चम् । सर्वेषु च दिनेषु । सर्वदेति फलितोऽर्थः ।
 

 
[^
.] 'तावपहन्तीति स तथोक्तः' इति पा. ।