This page has been fully proofread once and needs a second look.

स्तुतिभू.
 
कवेरस्य भगवानाचार्यमध्वः श्रीवत्सनारायणप्रतिमां प्रीत्या प्रददौ । सम्प्रत्यपि

सा प्रतिमा तत्र सभक्तिश्रद्धं पूज्यमाना विलसति । नारायणस्याप्रतिमा

प्रतिमा । तस्य च वक्षसि लक्षणभूता लक्ष्मीः । अपूर्वमिदं शिल्पकौशल-

स्याद्भुतमुदाहरणम् ॥
 

 

 
तौळवोऽयं लिकुचकुलदीपकः कविकुलतिलकः । लिकुचस्तरुविशेषः, यं

तौळवाः 'पेज' (ಪೆಜ) इति व्याहरन्ति । यस्य वाट्यां लिकुचविटपी बभूव

तं लिकुचवानिति 'पेजत्ताय' (ಪೆಜತ್ತಾಯ) इति प्रणिजगदुः । एतद्वंशीयाः

'पेजत्ताय'

(ಪೆಜತ್ತಾಯ) पदोपाहाह्वा बहवः सम्प्रत्यपि सन्ति तौळवमण्डले ॥
 

 
तौळवमण्डलस्य स्वर्णयुगं तत् सामाजिकतया चाऽध्यात्मिकतया च, यदा

पण्डिताचार्यो जिजीव ॥
 

 
तदा 'कबेनाडु' (३३८३ಕಬೆನಾಡು) इति ख्यातोऽयं देशस्तौळवमण्डलस्य केन्द्र-

स्थानमासीत् । या पूर्वं तौळवमण्डलराजधानी बभूव सा सम्प्रति केरळक्रोडे

निपपातेति महानयं राजकीयदुरन्तः ॥
 

 
तदात्वे 'इम्मडि'(@ಇಮ್ಮಡಿ) जयसिंहस्तौळवानां भूपतिर्बभूव । निरातङ्कं

समृद्धं च जीवनम् । समकालीनो महाराजोऽयमाचार्यमध्वस्य, यो जगद्-

दीपकमध्यात्मदीपं तौळवमण्डले प्रज्वलयामास । तेन तदा तौळवमण्डलं

तौळवकुलपुत्ररत्नेन श्रीमदानन्दतीर्थभगवताऽध्यात्मप्रपञ्चस्य गौरीशङ्करमा-

रुरोह ॥
 

 
त्रिविक्रमपण्डितस्तर्हि महाराजस्य जयसिंहस्याऽस्थानकविरास । अद्वैत-

कृतान्ते पुनरयमद्वितीयः पण्डित इति विद्वन्मण्डलीषु प्रथितोऽमान्यत । समग्रा

विद्वन्मण्डली स्वाभिमतमायावादरक्षार्थं त्रिविक्रमपण्डितमुखप्रेक्षमास ॥
 

 
एकदा त्रिविक्रमपण्डितस्य श्रीमध्वेन समागमः समजनि । दर्शन्दर्शं तमा-

चार्यम्, श्रावंश्रावं तद्वचोविलासं च विषयमण्डनचातुरीं च, अनुपमामनु-