This page has not been fully proofread.

स्तुतिभू.
 
कवेरस्य भगवानाचार्यमध्वः श्रीवत्सनारायणप्रतिमां प्रीत्या प्रददौ । सम्प्रत्यपि
सा प्रतिमा तत्र सभक्तिश्रद्धं पूज्यमाना विलसति । नारायणस्याप्रतिमा
प्रतिमा । तस्य च वक्षसि लक्षणभूता लक्ष्मीः । अपूर्वमिदं शिल्पकौशल-
स्याद्भुतमुदाहरणम् ॥
 

 
तौळवोऽयं लिकुचकुलदीपकः कविकुलतिलकः । लिकुचस्तरुविशेषः, यं
तौळवाः 'पेज' (…) इति व्याहरन्ति । यस्य वाट्यां लिकुचविटपी बभूव
तं लिकुचवानिति 'पेजत्ताय' () इति प्रणिजगदुः । एतद्वंशीयाः
'पेजत्ताय'
() पदोपाहा बहवः सम्प्रत्यपि सन्ति तौळवमण्डले ॥
 
तौळवमण्डलस्य स्वर्णयुगं तत् सामाजिकतया चाऽध्यात्मिकतया च, यदा
पण्डिताचार्यो जिजीव ॥
 
तदा 'कबेनाडु' (३३८३) इति ख्यातोऽयं देशस्तौळवमण्डलस्य केन्द्र-
स्थानमासीत् । या पूर्वं तौळवमण्डलराजधानी बभूव सा सम्प्रति केरळक्रोडे
निपपातेति महानयं राजकीयदुरन्तः ॥
 
तदात्वे 'इम्मडि'(@) जयसिंहस्तौळवानां भूपतिर्बभूव । निरातङ्कं
समृद्धं च जीवनम् । समकालीनो महाराजोऽयमाचार्यमध्वस्य, यो जगद्-
दीपकमध्यात्मदीपं तौळवमण्डले प्रज्वलयामास । तेन तदा तौळवमण्डलं
तौळवकुलपुत्ररत्नेन श्रीमदानन्दतीर्थभगवताऽध्यात्मप्रपञ्चस्य गौरीशङ्करमा-
रुरोह ॥
 
त्रिविक्रमपण्डितस्तर्हि महाराजस्य जयसिंहस्याऽस्थानकविरास । अद्वैत-
कृतान्ते पुनरयमद्वितीयः पण्डित इति विद्वन्मण्डलीषु प्रथितोऽमान्यत । समग्रा
विद्वन्मण्डली स्वाभिमतमायावादरक्षार्थं त्रिविक्रमपण्डितमुखप्रेक्षमास ॥
 
एकदा त्रिविक्रमपण्डितस्य श्रीमध्वेन समागमः समजनि । दर्शन्दर्शं तमा-
चार्यम्, श्रावंश्रावं तद्वचोविलासं च विषयमण्डनचातुरीं च, अनुपमामनु-