2023-02-17 11:03:15 by ambuda-bot
This page has not been fully proofread.
श्लो.१६-१७
३५
२
पाधिप्रयुक्तान्यथाभावाभावे आत्मयोग्येन विज्ञानेन निजरूप एवावतिष्ठन्ते ।
प्रपञ्चोऽपि सत्यः प्रवाहरूपेण नित्यः पञ्चभेदविशिष्ट इति । एतस्य चिद -
चिदात्मकप्रपञ्चस्योदयलयविभवानां निमित्तकारणभूतः, 'सार्वज्ञ्यसत्यसङ्कल्प-
त्वाद्यनेकोदारगुणः, सर्वदा सर्वजीवादिभ्योऽत्यन्तभिन्नः, सर्वदोषविवर्जितः,
परिपूर्णज्ञानानन्दाद्यनन्तकल्याणगुणमूर्तिर्भगवान् विष्णुरिति ये जानन्ति ते
तत्वज्ञाः । ऐक्यावबोधकं तत्त्वमस्यादिवाक्यं सत्यम्; स्वाभाविकनित्यनिर-
तिशयापरिमितोदारगुणमपि ब्रह्मैव सुरवरनरतिर्यक् स्थावरनारकिस्वर्गाप-
वर्गिचेतनेषु स्वभावतो विलक्षणमविलक्षणं च वियदादिनानाविधमलरूप-
परिणामास्पदं चेति ये विजानन्ति ते मिश्रबुद्धयः । निर्विशेषज्ञानमात्रमेव
ब्रह्म । तच्च नित्यमुक्तस्वप्रकाशस्वभावमप्यविद्यापरिणतं संसरति । तदतिरिक्ते-
श्वरेशितव्याद्यनन्तविकल्पस्वरूपं कृत्स्नं जगन्मिथ्या । कश्चिद्वद्धः कश्चिन्मुक्त
इतीयं व्यवस्था न विद्यते । इतः पूर्वं केचिन्मुक्ता इत्ययमर्थोऽपि मिथ्या ।
एकमेव शरीरं सज्जीवम् । निर्जीवानीतराणि स्वप्नदृष्टशरीरवत्" । तच्छरीरं
किमिति न व्यवस्थितम् । आचार्यो ज्ञानस्योपदेष्टा मिथ्या । शास्त्रं च
मिथ्या । "शास्त्रप्रमाता च मिथ्या । शास्त्रजज्ञानं च मिथ्या । एतत्सर्वं
मिथ्याभूतेनैव शास्त्रेणावगम्यत इति ये मन्यन्ते ते विवरणमतानुसारिणोऽन्य-
थाज्ञाः । अनाद्यनिर्वाच्यमिथ्या समस्तोपाधिविधुरानन्तानन्दाद्वितीयचैतन्यैक-
रसात्मनाऽपह्तपाप्मत्वाद्यशेषोपनिषद्घोषितमध्यात्मतत्वं प्रादेशिकमनेकदुःख-
सङ्करोपप्लुतं कर्तृत्वभोक्तृत्वाद्याकारविशेषास्पदं नानाविधमलरूपपरिणामा-
१. 'सर्वज्ञः सत्यकामः सत्यसङ्कल्पत्वा-' इति पा. ।
२. 'मिथ्याबुद्धयः' इति सर्वत्र कोशेषु पठ्यते । लिपिकृतां भ्रान्तिरेवेयम् । तत्वज्ञान्, मिश्रबुद्धीन्, अन्यथाज्ञानिति
मूलोक्तत्रिविधस्वभावविवरणपरं हीदं व्याख्यानम् । तत्र मिथ्याबुद्धय इति पाठे प्रकृतपरित्यागः
अप्रकृतस्वीकारश्च स्याताम्, मूलं न यथावद् विवृतं भवति । एतेन मिश्रबुद्धय इति भेदाभेदवादिनो
भास्करादयः कटाक्षीक्रियन्ते ।
३. जीवोपेतमित्यर्थः।'सजीवम्' इति मूलपाठः स्यात् ।
'प्रमाता च मिथ्या' इतीयदेव पा. I
४. 'स्वप्नदृष्टान्तशरीरवत्' इति पा ।
६.
'अनाद्यनिर्वाच्याविद्या-' इति पा. ।
18