This page has been fully proofread once and needs a second look.

वायुस्तुतिः
 
तत्वज्ञान् सम्यग्ज्ञानवतः मुक्तिभाजः कृत्वा । तत्रापि योग्यतातारतम्यात्

तैत्तिरीयोपनिषदि 'भीषाऽस्मात्' इत्यनुवाके - 'स एको मानुष आनन्दः '

इत्यारभ्य 'स एको ब्रह्मण आनन्दः' इत्यन्तैरेकत्रिंशद्वाक्यैर्मुक्तानामपि

यदानन्दतारतम्यमुक्तं तदनुसारेण सुखयसि आनन्दयसि । मिश्रबुद्धीन्

मिश्रज्ञानिनः नित्यबद्धान् नित्यसंसारिणः त्रिदिवनिरयभूषु गोचरान् परि-

दृश्यमानान् आधत्से । आङ्पूर्वात् 'डुधाञ् धारणपोषणयोः' इत्यस्माद्

धातोर्लट् । स्वर्गनरकभूभागिनः करोषीत्यर्थः । अन्यथाज्ञान् मिथ्याज्ञानिनः

तामिस्रान्धादिकाख्ये तामिस्रमन्धतामिस्रमित्याद्यनेकाभिधानवति'[^१] तमसि सुबुहलं

अत्यर्थं दुःखयसि क्षुत्क्षामेत्यादिश्लोकोक्तप्रकारेण बाधस इत्यर्थः । इत्थं अनेन

प्रकारेण । 'वायुना हि सर्वे लोका नेनीयन्ते' इत्यादि श्रुतिशतम्–
-
 
'धर्मश्चार्थश्च कामश्च मोक्षश्चैव यशो ध्रुवम्
 
[^२] ।
'त्वदायत्तमिदं सर्वं सर्वलोकस्य भारत' इत्यादीतिहासः,

 
आदिशब्देन पुराणधर्मशास्त्रादिकं च आकर्णयामः शृणुमः । यद्यपि
--
 
'सृष्टिरक्षाहृतिज्ञाननियत्यज्ञानबन्धनान्।
 
३४
 

'मोक्षं च विष्णुतस्त्वेव ज्ञात्वा मुक्तिर्नचान्यथा'
 

 
इति श्रीविष्णोरेव मोक्षादेर्दातृत्वम् । तथाऽपि 'विष्णुर्हि दाता मोक्षस्य वायुश्च

तदनुज्ञया' इति वायोरपि श्रीविष्णोराज्ञया मोक्षदातृत्वमस्तीत्यवगन्तव्यम् ।

अत्र तत्वज्ञानादयः प्रविभज्य प्रदश्र्यन्ते । नित्यास्तावदनन्ता जीवा देवमा-

नुषासुरभेदेन त्रिविधाः । तेषां कर्माणि प्रकृतयश्चानन्ताः । तत्र देवा नित्या-

नन्दज्ञानबलतारतम्या मुक्तियोग्याश्च । मानुषास्तूत्तमादिभेदेन त्रिविधाः। तत्र

मनुष्योत्तमा देवकल्पाः । मध्यमा[^३] नित्यसुखदुःखात्मकसंसृतियोग्याः ।

मनुष्याधमा नित्यनिरयाः । असुरा नित्यदुःखात्मकाः । एते प्रकृतिसम्बन्धो-
२. 'मोक्षश्चैव ध्रुवं त्वया' इति पा. ।
 

 
[^
.] 'तामिस्रान्धतामिस्राद्यनेकाभिधानवति' इति पा
 
. ।
 
[^२] 'मोक्षश्चैव ध्रुवं त्वया' इति पा. ।
 
[^
.] 'मनुष्यमध्यमाः' इति पा. ।