This page has been fully proofread once and needs a second look.

प्राप्नोति । प्रतिशब्दयोगे तु 'अभितः परितः समयानिकषाहाप्रतियोगेऽपि'[^१]
(वा.२.३.२) इति तदपवादिका द्वितीयैव भवति । परिवारात्मना परिवा-
ररूपेण सेवकेषु सेवां कुर्वाणेषु । विरिञ्चिर्ब्रह्मा । इवसनो मुख्यप्राणः[^२] ।
विहगपो गरुडः । अनन्तः शेषः । रुद्रो मृङः । इन्द्रो देवेन्द्रः । एते पूर्वाः
मुख्या येषां तेषु सुरेषु । तारतरम्यं उच्चनीचत्वं आध्यायन् जानानः । भक्तिं
सन्धत्ते सम्यक्कुरुते । तं अस्मद्गुरुः वायुः श्रीमुख्यप्राणः स्फुटं व्यक्तं अवति
रक्षति । 'तारतम्यं ततो ज्ञेयं सर्वोच्चत्वं हरेस्तथा' इत्ययमर्थोऽत्राव-
गन्तव्यः ॥ १५ ॥
 
(स्तुतिचं.) अष्टाक्षरवरिवस्यां मनस्याधायाऽह - विष्णोः। श्रीधराभ्यामाश्लिष्टे
तत्र विष्णौ । स्मरन्ति च – 'लक्ष्मीधराभ्यामाश्लिष्टः' इति । अनुं अस्य ।
अमुं प्रतीत्यध्याहारेण योजनीयमित्यप्याहुः । परिवारभावेन सेवमानेषु विरिञ्चा-
दिषु । 'धर्मः स्वभाव आत्मा स्यात्' इति च । विहगपो गरुत्मान् । स्मरन्ति
च - 'ब्रह्मवायुशिवाहीशविः शक्रादिकैरपि सेव्यमानः' इति । तेषु तारतम्यं
चिन्तयन् तदनुगुणं भक्तिं सन्धत्ते ॥ १५ ॥
 
तत्व-ज्ञान् मुक्ति-भाजः सुखयसि हि गुरो योग्यता-तारतम्या-
दाधत्से मिश्र-बुद्धींस्त्रिदिव-निरय-भू-गोचरान्नित्य-बद्धान् ।
तामिस्रान्धादिकाख्ये तमसि सु-बहुलं दुःखयस्यन्यथा-ज्ञान्
विष्णोराज्ञाभिरित्थं श्रुति-शतमिति-हासादि चाऽकर्णयामः ॥
॥ १६ ॥
 
(कविक.) त्रिविधानां जीवसङ्घानां यथायोग्यं मोक्षस्वर्गनिरयान्धतमसानां
प्रदाता त्वमिति विज्ञापयति तत्वज्ञानिति । हे गुरो, विष्णोराज्ञाभिः
 
[^१] भट्टोजिदीक्षितप्रभृतिभिरादृतोऽयं वार्तिकपाठः । जयादित्यस्तु - 'अभितः परितःसमयानिकषाहाप्रतियोगेषु
च दृश्यते' इति पाठं पपाठ । क्वचित् कोशे तु 'अभितःपरितःसमयानिकषाहाऋतेप्रतियोगेऽपि च
दृश्यते' इति वार्तिकं पठ्यते । 'ऋतेयोगे द्वितीयाऽपि' इति व्याकरणान्तरसाङ्कर्येणायं पाठः ।
 
[^२]. इतः परम् 'श्वसनः स्पर्शनो वायुरित्यमरः' इत्यधिकं क्वचित् ।