This page has been fully proofread once and needs a second look.

३२
 
बायुस्तुतिः
 
'यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
 

'तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः' इति श्रुतिश्च ॥ १४ ॥
 

 
(स्तुतिचं.) मातरि वेदवाचि इवयति सञ्चरति निरायासमिति मात-

रिश्वा । जगन्निर्मातरि सदा मनसा सञ्चरति वा । मातरि विहायसि वर्धते

वा । टुओ श्वि गतिवृद्ध्योः । जरयिता विहापयतीति । इतरदेवतासु यादृशी

तत ऊर्जिताम् । निर्निमित्तामहैतुकीम्, स्वभावसहजाम् । अफलापेक्षया

निर्व्याजां प्रोज्झितकैतवाम्, अडाम्भिकीं वा । ज्ञानवैराग्यादिगुणगण-

बृंहिताम् । श्रूयते च–-'यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ' इत्याद्या

श्रुतिः॥ १४ ॥
 

 
विष्णोरत्युत्तमत्वादखिल-गुण-गणैस्तत्र भक्तिं गरिष्ठा-

माश्लिष्टे[^१] श्री-धराभ्याममुमथ परिवारात्मना सेवकेषु ।

यः सन्धत्ते विरिश्ञ्चि-श्वसन-विहग-पानन्त-रुद्रेन्द्र-पूर्वे-

ष्वा-ध्यायंस्तारतम्यं स्फुटमवति सदा वायुरस्मद्-गुरुस्तम् ॥
 

॥ १५॥
 

 
(कविक.) गुरुदेवताभक्तेः सकलपुरुषार्थसाधनत्वादवश्यमनुष्ठेयत्वमुक्तम् ।

कथमनुष्ठानक्रमः, किं तस्य फलमित्यत आह विष्णोरित्यादिना । यः

अखिलगुणगणैः सकलज्ञानानन्दादिकल्याणगुणसमूहैः[^२] विष्णोः श्रीनाराय-

णस्य अत्युत्तमत्वात् समाधिकरहितत्वेन सर्वोत्कृष्टत्वात् । श्रीधराभ्यां लक्ष्मी-

क्षोणीभ्यां आश्लिष्टे अलिङ्गिते[^३] विष्णौ । गरिष्ठां अतिगुर्वीं भक्तिं सन्धत्ते

सम्यग्दधाति । अथ अनन्तरं अमुं श्रीविष्णुं प्रति । अत्र प्रतिशब्दोऽध्या-

हर्तव्यः"[^४] । अन्यथा 'कर्तृकर्मणोः कृति' (अ.सू.२.३.६५) इति कर्मणि षष्ठी
 

 
[^
.] 'गरिष्ठां संश्लिष्टे' इति पा ।
 

 
[^२] '–गुणगणैः' इति पा. ।
 
[^
.] 'संश्लिष्टे आलिङ्गिते' इति पा ।
 
२.'–गुणगणैः

 
[^४] 'अध्याहार्यः
' इति पा. ।
४. 'अध्याहार्यः' इति पा ।