This page has not been fully proofread.

३१
 
श्लो.१४
 
'कलिलं गहनं प्रोक्तम्' इति च । व्रणादुद्गतं कपूयं वा शोणितं पूय-
शोणितमुच्यते । 'पूयशोणितमत्ति सः' इति प्रयोगात् । जलूकाः '373'
इति भाषायाम् । 'जलूकाः स्युर्जलौकसः' इति च । उपजिहते दिदंशयिषया
कायमाक्रम्य उपर्युपरि गच्छन्ति । ओहाङ् गतौ ॥ १३ ॥
 
-
 
मातर्म्ये मातरिश्वन् पितरतुल गुरो भ्रातरिष्टाऽप्त-बन्धो
स्वामिन् सर्वान्तरात्मन्नजर जरयितर्जन्म-मृत्यामयानाम् ।
गोविन्दे देहि भक्तिं भवति च भगवन्नूर्जितां निर्न्निमित्तां
निर्व्याजां निचलां सद्गुण-गण-बृहतीं शाश्वतीमाशु देव ॥ १४ ॥
(कविक.) यद्यपि मूर्धनीत्यतीतश्लोके सामान्यतो भक्तिरभ्यर्थिता ।
तथाऽप्यतृप्ततया तामेव विशिष्य पुनः प्रार्थयते - मातरिति । हे मातः
अम्ब । पितः जनक । अतुलगुरो समानरहितगुरो । भ्रातः सोदर । इष्ट
प्रिय । आप्तबन्धो आप्तबान्धव । स्वामिन् शास्तः । सर्वान्तरात्मन् सर्वान्त-
र्यामिन्' । अजर अविद्यमानजर । जन्ममृत्यामयानां जननमरणव्याधीनां
जरयितः मारयितः । भगवन् षड्गुणैश्वर्यसम्पन्न । देव ज्ञानादिगुणक । हे
मातरिश्वन् मुख्यप्राण । मे मम । ऊर्जितां प्रवृद्धाम् । निर्निमित्तां निरुपा-
धिकाम् । निर्व्याजां अनन्यमुखप्रसादार्थाम् । सद्गुणाः माहात्म्यज्ञानादयः,
तेषां गणः । तेन बृहतीं महतीम् । शाश्वतीं नित्याम् । एवंविशिष्टां भक्तिं
गोविन्दे विष्णौ भवति त्वयि च आशु अविलम्बेन देहि प्रदिश । इष्टदेवता-
गुरुभक्तेः ं सकलपुरुषार्थहेतुत्वात् । तदुक्तं गीतायां भगवता श्रीकृष्णेन -
 
8
 
'भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन।
 
'ज्ञातुं द्रष्टुं च तत्वेन प्रवेष्टुं च परन्तप ' इति ।
 
१. हेतुगर्भं विशेषणम् । सर्वान्तर्यामित्वादेव त्वं माता पिता गुरुर्भ्राता बन्धुश्च सर्वेषां भवसि ।
२. क्वचित् 'देवतागुरुभक्तेः' इतीयदेव पठ्यते।
 
४. 'भगवता कृष्णेन' इति पा.।
 
३. '–पुरुषार्थसाधनत्वात्' इति पा. ।
 
16