This page has been fully proofread once and needs a second look.

३१
 
श्लो.१४
 
'कलिलं गहनं प्रोक्तम्' इति च । व्रणादुद्गतं कपूयं वा शोणितं पूय-

शोणितमुच्यते । 'पूयशोणितमत्ति सः' इति प्रयोगात् । जलूकाः '373'
ಜಿಗಣೆ'
इति भाषायाम् । 'जलूकाः स्युर्जलौकसः' इति च । उपजिहते दिदंशयिषया

कायमाक्रम्य उपर्युपरि गच्छन्ति । ओहाङ् गतौ ॥ १३ ॥
 
-
 

 
मातर्म्ये मातरिश्वन् पितरतुल -गुरो भ्रातरिष्टाऽप्त-बन्धो

स्वामिन् सर्वान्तरात्मन्नजर जरयितर्ज्जन्म-मृत्यामयानाम् ।

गोविन्दे देहि भक्तिं भवति च भगवन्नूर्ज्जितां निर्न्निमित्तां

निर्व्याजां निश्चलां सद्गुण-गण-बृहतीं शाश्वतीमाशु देव ॥ १४ ॥

 
(कविक.) यद्यपि मूर्धनीत्यतीतश्लोके सामान्यतो भक्तिरभ्यर्थिता ।

तथाऽप्यतृप्ततया तामेव विशिष्य पुनः प्रार्थयते -- मातरिति । हे मातः

अम्ब । पितः जनक । अतुलगुरो समानरहितगुरो । भ्रातः सोदर । इष्ट

प्रिय । आप्तबन्धो आप्तबान्धव । स्वामिन् शास्तः । सर्वान्तरात्मन् सर्वान्त-

र्यामिन्' । अजर अविद्यमानजर । जन्ममृत्यामयानां जननमरणव्याधीनां

जरयितः मारयितः । भगवन् षड्गुणैश्वर्यसम्पन्न । देव ज्ञानादिगुणक । हे

मातरिश्वन् मुख्यप्राण । मे मम । ऊर्जितां प्रवृद्धाम् । निर्निमित्तां निरुपा-

धिकाम् । निर्व्याजां अनन्यमुखप्रसादार्थाम् । सद्गुणाः माहात्म्यज्ञानादयः,

तेषां गणः । तेन बृहतीं महतीम् । शाश्वतीं नित्याम् । एवंविशिष्टां भक्तिं

गोविन्दे विष्णौ भवति त्वयि च आशु अविलम्बेन देहि प्रदिश । इष्टदेवता-

गुरुभक्तेः[^२] सकलपुरुषार्थहेतुत्वात्[^३] । तदुक्तं गीतायां भगवता श्रीकृष्णेन -
 
8
 
[^४] -
 
'भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन।
 

'ज्ञातुं द्रष्टुं च तत्वेन प्रवेष्टुं च परन्तप ' इति ।
 

 
[^
.] हेतुगर्भं विशेषणम् । सर्वान्तर्यामित्वादेव त्वं माता पिता गुरुर्भ्राता बन्धुश्च सर्वेषां भवसि ।

 
[^
.] क्वचित् 'देवतागुरुभक्तेः' इतीयदेव पठ्यते।
 
४. 'भगवता कृष्णेन' इति पा.।
 

 
[^
.] '–पुरुषार्थसाधनत्वात्' इति पा. ।
 
16
 

 
[^४] 'भगवता कृष्णेन' इति पा.।