This page has not been fully proofread.

श्लो. १३
 
क्षुत्-क्षामान् रूक्ष-रक्षो-रद- खर-नखर- क्षुण्ण - विक्षोभिताक्षान्
आमग्नानन्ध-कूपे क्षुर-मुख-मुखरैः पक्षिभिर्विक्षताङ्गान् ।
पूयासृङ्गूत्र-विष्ठा-कृमि-कुल- कलिले तत्-क्षण - क्षिप्तशक्त्या-
यस्त्र-त्रातार्द्दितांस्त्वद् - द्विष उप जिहते वज्र - कल्पा जलूकाः ॥
 
२९
 
॥ १३ ॥
 
(कविक.) असुरा' अन्धे तमसि दुःखमनुभवन्तीत्युक्तम् । किं तदन्ध-
तमसम्? किं तद् दुःखम् ? इत्याशङ्कच तयोः स्वरूपं निरूपयति–
क्षुत्क्षामानिति । क्षुधा बुभुक्षया क्षामान् क्षीणान् । क्षैधातोः 'क्षायो
मः' (अ.सू.८.२.५३) इति निष्ठामत्वम् । रूक्षाणां क्रूराणां रक्षसां राक्षसानां
रदाः दन्ताः । खरनखरा कराळनखाश्च । 'नखोऽस्त्री नखरोऽस्त्रियाम्'
इत्यमरः । तैः क्षुण्णानि चूर्णीकृतानि । क्षुदिर् सञ्चूर्ण इति धातोः
'रदाभ्याम् ' (अ.सू.८.२.४२) इत्यादिना निष्ठानत्वम् । विक्षोभितानि
विशेषेणाऽकुलीकृतानि अक्षीणि चक्षूंषि येषां तांस्तथोक्तान् । 'बहुव्रीहौ
सक्थ्यक्ष्णोः स्वाङ्गात् षच्–'(अ.सू.५.४.११३) इति समासान्तः षच् ।
पूयः' रक्तपरिणामः । असृक् रक्तम् । 'रुधिरेऽसृग् लोहितास्ररक्तक्षतज-
शोणितम्' इत्यमरः । मूत्रं प्रस्रावः । 'मूत्रं प्रस्राव उच्चारः' इत्यमरः ँ । विष्ठा
 

 
१. 'दैत्याः' इति पा. ।
 
२. 'अन्धतमसि' इति पा. ।
 
३. श्रोत्राशङ्कां स्वस्मिन्नारोप्य निरूपयतीति भावः । अथवा 'किं तद्दुःखमिति श्रोतार: शङ्केरन् इत्या-
शङ्कय तत्स्वरूपं निरूपयति' इत्यध्याहारेण योजना ।
 
४.
 
'क्षुदिर्क्षये' इति पा. । 'क्षुदिर् सम्पेषणे' इति प्रचलितो धातुपाठः ।
'सक्थ्यक्ष्णोः इत्यादिना समासान्तः' इति पा. ।
 
६. पूयमिति युक्तम् । लिपिकृत्प्रममाद।
'मूत्रं प्रस्नावः' इतीयदेव प्रकृतोपयोगीति भाति । उच्चारपदस्य 'अवस्करः शमलं शकृत्' इत्युत्तरा-
न्वयात् । नव्यास्तु 'उच्चारावस्कारौ' इति समस्तमुत्तरान्वयित्वेन पठन्ति । अत एव पुरुषोत्तमोऽप्याह-
'उच्चारस्तु पुरीषण:' इति। तथाऽपि उत्सर्गोच्चारपदयोर्मूत्रपुरीषोभयपरत्वं न्याय्यम् । उभयत्रापि प्रयो-
गदर्शनात् । तथाहि भारते– 'दाने तपसि सत्ये च यस्य नोच्चरितं यशः । विद्यायामर्थलाभे च मातुरुच्चार
एव सः' (उद्योग.१३३.२४) इति । नचात्र शकृत्परतयाऽपि सावकाशता । मूत्रमिति हि निर्गमनस्था-
नैक्यात्स्वरसोऽर्थः । तथाहि लक्षालङ्कारे– 'मातुरुच्चार एव स इत्यत्र उच्चारो मूत्रम्' इति ।
 
15