This page has been fully proofread once and needs a second look.

बायुस्तुतिः
 
दुःखत्यागः यस्मिन् कर्मणि तत् । (अस्तप्राय: आनन्द: यस्मिन् कर्मणि तत्) [^
]
वैषयिकसुखस्य दुःखानुषङ्गाद्दुःखमेव । अधिभवं भवे संसारे । 'अव्ययं

विभक्ति - ' (अ.सू.२.१.६) इत्यादिना विभक्त्यर्थेऽव्ययीभावः । सततं

निरन्तरम् । आस्ते तिष्ठति । समयाचारराहित्यादिति भावः । अतिकष्टेऽ-

तिदुःखावहे पञ्चेन्द्रियाधारा रूपरसादयः कष्टा असह्या यस्मिंस्तस्मिन्नरक-

विशेषे कथञ्चित्केनापि प्रकारेण । न वसति वासं न करोति । विष्णुवैष्ण-

वद्वेषाभावादित्यर्थः । अथवा पाश्र्वभूमिं प्रपन्नोऽपि यस्तूदास्ते । तत्वज्ञानं

न गृह्णाति सोऽधिभवमास्ते । तादृशस्य मध्यमजीवत्वात् । तदुक्तम्–
-
 
'मध्यमा मानुषा ये तु सृतियोग्याः सदैव हि' इति ।
 
२८
 

 
एवञ्चातिकष्टे पञ्चकष्टे कथञ्चित्केनापि प्रकारेण न वसति । न वसत्येवे-

त्यर्थः । तथाविधस्याऽसुरत्वात् । तदुक्तम्-
-
'असुराणां तमःप्राप्तिस्तदा नियमतो भवेत् ।
 

'यदा तु ज्ञानिसद्भावे नैव गृह्णन्ति तत्परम्' इति ॥ १२ ।
 

 
(स्तुतिचं.) अथ नित्यसंसारिणां राजसानां गतिः । हरिचरणयोः निरन्तरध्यानेन

समस्तकल्याणभाजां मद्गुरूणाम् । आत्मनि गुरौ च बहुवचनम् । अस्माकं

समस्तसात्विकानां वा गुरूणाम् । रणरणिका रणरणकमौत्सुक्यम् । धृतोत्साहैः

स्वर्गिभिर्देवैरपि सेव्याम् । 'उत्कलिका रतिश्च रणरणकम् । औत्सुक्यम्' इति

च । पार्श्र्वभूमिं प्रपन्नोऽपि योऽस्मिन् लोके तत्वमार्गे वा उदास्ते । सः

अधिभवं भव एवाऽस्ते । असुलभक्लेशनिर्मोकमस्तप्रायानन्दं चेति क्रिया-

विशेषणे । कष्टयतीति कष्टम् । कष्ट प्रतिघाते । पञ्चभिरपीन्द्रियैः कष्टमेव,

पञ्चापीन्द्रियविषयाः कष्टा एव वा यत्र तस्मिन् पञ्चकष्टे महातमसि कथञ्चिन्न

वसति द्वेषाभावात् । भक्तिर्मुक्तिम्, द्वेषस्तमः, औदासीन्यं संसारं च

गमयतीत्येतत् ॥ १२ ॥
 

 
[^
.] इदं वाक्यं मूलकोशे लुप्तम् ।