This page has been fully proofread once and needs a second look.

श्लो.१२
 
२७
 
श्रीविष्णुवैष्णवद्वेषिणां तेषां'[^१] दुःखोत्तरेऽन्धे तमसि नित्यं निवास[^२] इति
 

भावः ॥ ११ ।॥
 

 
( स्तुतिचं.) सात्विकनामुक्ता स्थितिः प्राणशरणानाम् । तद्द्वेषिणां

तामसानामुच्यते । उत्कटं तप्ता, अत एवात्युद्वणद्युतिः । तव किङ्करैरितस्ततः

उद्गाढं दृढं पात्यमाना ग्राव्णां पति:ङ्क्तिः पाषाणपरम्परा । गरिम्णा स्थौल्येन

ग्लपयति क्लेशयति भवद्वेषिणस्तामसान् । ग्लै हर्षक्षये । "शिलोप-

लाश्मपाषाणग्रावाणः प्रस्तरो दृषत्' इति च । प्रकटकटकटध्वानं ग्राव्णां

परस्परं सङ्घट्टनेनोद्यन्तीनां विद्युतां व्यूढेन विपुलेन स्फुलिङ्गप्रकराणां विकिरणेन

उत्क्वाथिते तमसि नित्यनरके पीडिताङ्गान् । 'महद् विशालं च व्यूढं विपुलम्'

इति, 'स्फुलिङ्गाश्च कणाः' इति च । क्वथे पाके ॥ ११ ॥
 

 
अस्मिन्नस्मद्-गुरूणां हरि-चरण - चिर-छ्द्ध्यान-सन्मङ्गलानां

युष्माकं पार्श्व-भूमिं धृत- रणरणिक- स्वर्गि-सेव्यां प्रपन्नः ।

यस्तूदास्ते स आस्तेऽधि-भवमसुलभ-क्लेश-निर्म्मोकमस्त-

प्रायानन्दं कथञ्चिन्न वसति सततं पञ्च-कष्टेऽति कष्टे ॥ १२ ॥
 
-
 

 
(कविक.) य आचार्यसम्प्रदायार्थमुपगतोऽपि समयनियताचार औदासीन्यं

करोति स संसृतौ वर्तते न कदाचिन्नरकविशेष इत्याह- अस्मिन्निति ।

अस्मद्गुरूणामस्मदाचार्याणाम् । हरेः श्रीविष्णोश्चरणौ पादौ । तयोश्चिरध्यानं

निरन्तरविचारः । तेन सन्मङ्गलानाम् उत्कृष्टशुभानां (युष्माकम् ) । धृता

रणरणिकाऽभिलाषो यैस्तैः । स्वर्गिभिः देवैर्मनुष्योत्तमैश्च । स्वर्गिपदस्य

मनुष्योत्तमानां चोपलक्षणत्वात् । सेव्यां सेवनीयाम् । पाश्र्वभूमिं समीप-

प्रदेशम् । अस्मिन् लोके (यः पुरुषः) प्रपन्नः प्राप्तोऽप्युदास्ते उपेक्षते ।

समयनियताचारान्न करोतीत्यर्थः । स पुमान् । असुलभो दुर्लभ: क्लेशनिर्मोको

 
[^
.] 'विष्णुवैष्णवद्वेषिणस्ते येषाम्' इति पा. ।
 

 
[^
.] 'नित्यनिवासः' इति पा ।
 
14