This page has been fully proofread once and needs a second look.

२६
 
वायुस्तुतिः
 
उद्गाढं पात्यमाना तमसि तत - इतः किङ्करैः पङ्किले ते

पग्रिव्णां गरिम्णा ग्लपयति हि भवद् द्वेषिणो विद्वदाय ॥
 

॥ ११ ॥
 

 

 
(कविक.) एवं तद्भक्तिमतां गतिमुक्त्वा तद्वेषिणामन्धतमसदुःखप्राप्ति-

माह– उत्तप्तेति । हे विद्वदाद्य विदुषां प्राथमिकौं क[^१]। उत्तप्ता सन्तप्ता । अत्युत्कट-

त्विट् । अत्यर्थमुत्कटाः त्विषः यस्याः सा । अत्युल्बणकान्तिः । ते तव

किङ्करैर्भृत्यजनैः । ततइतः समन्तात् । उद्गाढमुच्चैर्दृढं यथा भवति तथा ।

पात्यमाना प्रक्षिप्यमाणा । ग्राव्णां पाषाणानाम् । 'पाषाणप्रस्तरग्रावोपला-

इमानः शिला दृषत्' इत्यमरः । पङ्क्तिः परम्परा । प्रकट: प्रस्फुटः । कटकट

इत्ययमनुकारशब्दः[^२] । स एव ध्वानो ध्वनिर्यस्मिन् कर्मणि तत् । सट्टनं

सङ्घर्षणम् । तेनोद्यन्त्यः विद्युतः येषां ते उद्यद्विद्युतः उद्गच्छत्प्रभाः । व्यूढ-

स्फुलिङ्गाः पुञ्जीभूताग्निकणाः[^३] । तेषां प्रकरः समूहः । तस्य विकिरणं विशेषेण

प्रसरणम् । तेन उत्क्वाथिते उच्चैः सन्तापिते । पङ्किले कर्दमवति । पिच्छादि-

त्वादिलच् । तमसि महानरके । बाधिताङ्गान् । पीडितावयवान् । भवति त्वयि

द्वेषिणो द्वेषवतः । गरिम्णा गुरुत्वेन ग्लपयति ग्लानिं प्रापयति हि । 'घटादयो

मितः' (गणसू.भ्वा.५५३) इति मित्सञ्ज्ञायां 'मितां ह्रस्वः' (अ.सू.

६.४.९२) इति ह्रस्वत्वम् । द्वेषा नवविधाः–
 

 
-
 
'जीवाभेदो निर्गुणत्वमपूर्णगुणता तथा ।

'साम्याधिक्ये तदन्येषां भेदस्तगत एव च ॥
 

 
'प्रादुर्भावविपर्यासस्तद्भक्तद्वेष एव च ।
 

 
'तप्रमाणस्य निन्दा च द्वेषा एतेऽखिलाः मताः' इति ।
 

 
[^
.] 'पण्डितानां प्रथमक' इति पा. ।
 

 
[^२] '– करणशब्दः' इति पा. ।
 
[^
.] 'पुञ्जीभूता अग्निकणाः । अत्र कर्मधारयः' इति पा. ।
 
२. '– करणशब्दः' इति पा ।