This page has been fully proofread once and needs a second look.

स्तुतिभूमिका....
 

 
श्रीमध्वच्छात्रवारमणिहारे तरळहीरकायते कविराजराजः श्रीत्रिविक्रमपण्डिता-

चार्यः । तस्य कश्चिदन्तःस्फुरणरणितः प्रतिभाविस्फुलिङ्गोऽयं वायुस्तुति-

रिति । या गीर्वाणस्तोत्रवाङ्मये काचिदनुपमा निर्मितिः । काचिदपूर्वा शैली

शैलूषीव चित्तरञ्जनी । काचिदनन्या रचना मान्या सन्न्यासिनामपि ।

महद्भिरपि मन्त्रतुल्येति सगौरवं समादृता ॥
 

 
रचयिता चास्याः स्तुतेः श्री त्रिविक्रपण्डितस्तौळवमण्डलमण्डनोऽभिजातः

कविरास । अनेन चोन्मीलद्व्यञ्जने सद्य:समुद्यद्यौवने पुनरुपषोडश एव

वयसि प्रबद्धं 'उषाहरणं' नाम प्रबुद्धं महाकाव्यं तौळवमण्डलस्य प्रथमः

काव्याञ्जलिरिति प्रथामर्हति । प्रथममुपायनं काव्यप्रपञ्चस्य । वस्तुत इद-

मुषाहरणं नाम षष्ठं महाकाव्यानां महाकाव्यम् ॥
 

 
पण्डिततल्लजोऽयं शालिवाहनशकस्य द्वादशे त्रयोदशे च शतके भूवलयम-

लञ्चकार । अस्य जन्मभूमि: 'कबेनाडु' (ಕಬೆನಾಡು) इति तदात्वे प्रथितः,

सम्प्रति 'कासरगोडु' (ಕಾಸರಗಗೋಡು) इति नाम्ना परिचितस्तौळवभूमि-

भागः । यः पूर्वं तौळवराज्यस्य राजधानी बभूव । यत्र द्वितीयो जयसिंहाख्यो

वीरराजस्तौळवराज्यं परिरक्षन् विरराज । सम्प्रति पुना राजकीयकातन्त्रवशात्

केरळराज्यभागतां गतः । अस्य स्तुतिप्रबन्धुः श्रीत्रिविक्रमपण्डितस्य भव्य-

मुदवसितं 'कावुमठ' (च्२४ಕಾವುಮಠ) इति प्रथितं सम्प्रत्यपि 'कासरगोडु'नगरे

ददृश्यते । अद्यापि तद्वंशीया एव तत्र निवसन्ति ॥
 

 
4