This page has been fully proofread once and needs a second look.

श्लो. ११
 
यथा भवति तथोदयन् उद्गच्छन् मोदः आनन्दः एषामस्तीति तेषाम् । 'अत

इनिठनौ' (अ.सू.५.२.११५) इति मत्वर्थीय इनिप्रत्ययः । ननु 'न बहुव्रीहि-

निर्वाह्ये भवन्ति मनुबादयः' इति प्रतिषेधादिना न भवितव्यम्[^१] । नैष

दोषःौंषः[^२] । प्रतिषेधस्य प्रायिकत्वात् । प्रयोगबाहुल्याच्च । तथा मुरारिणा प्रायोजि-

'कोकप्रीतिचकोरपारणपटुज्योतिष्मती लोचने' (अनर्घराघव.१.१.)' इतिौं ।
ति[^३] ।
सम्प्रदानस्य शेषत्वविवक्षायां षष्ठी । यथा कादम्बर्य्याम्– 'अनुकरोति स्म

भगवतो नारायणस्य' इति कर्मणः शेषत्वविवक्षायां षष्ठी । आनन्दान् सुखानि

ददति वितरन्ति हि । हिशब्दः प्रसिद्धौ । ददातेर्जुहोत्यादिकात् 'अदभ्य-

स्तात्' (अ.सू.७.१.४) इत्यदादेशे लटि रूपम् ॥ १० ॥
 

 
(स्तुतिचं.) मृदुपदं गानोचितकोमलाक्षरं उदितानि अन्तःस्फुरणेन स्वयमुद्गतानि

उच्चगीतानि येषां तैः सुन्दरीणां वृन्दैः । मृदुपदानि अन्तर्मोदेन उद्गतानि

गीतानि वा । वृन्दैरावन्द्यैः स्तूयमानैः मुक्तैरिन्द्वादिभिः सेव्ये मुकुन्दमन्दिरे

वैकुण्ठे । अहिमगुस्तिग्मांशू रविः । अहीन्द्रः शेषः । मुकुर्मुक्तिः । शकुः

शक्तिरिति यथा । तथाहि भारते - 'हिरण्मये शकुनी' इति । शकुं शक्तिं

नयत इति हि शकुनी । तद्दानान्मुकुन्दः । तल्लोके नित्याभिव्यक्तानन्दशालिनां

मुक्तानां मन्दमन्दा मरुतः आनन्दान् ददति । नानाविधसुमनसामामोदान्

दधानाः । 'आमोदः स्यात् परिमळ: सौरभ्यं च सुगन्धिका' इति च ।

मन्दमन्दा मन्दप्रकारा मन्दतरा वा । आधिक्येऽपि द्वे वाच्ये ॥ १० ॥
 
-
 

 
उत्तप्ताऽत्युत्कट - त्विट् प्रकट कट कट ध्वान सङ्घट्टनोद्यद्-

विद्युद्-व्यूढ-स्फुलिङ्ग-प्रकर - विकिरणोत्काथिते बाधिताङ्गान् ।
 

 
[^
.] इनिप्रत्ययेन न भवितव्यमित्यर्थः ।
 

 
[^
.] 'न दोषः' इति पा. ।
 

 
[^
.] ननु कोकप्रीतिचकोरपारणयोः पटुनी ज्योतिष्मती चेति विशेषणसमासे नैष दोषः । अस्वरसमिदं

व्याख्यानम् । अथापि यद्यागृह्यते तर्हि 'बिसकिसलयच्छेदपाथेयवन्तः' इत्यादिकमुदाहर्तव्यम् । तथा च

महाभारते – 'विवेश धर्मात्मवतां वरिष्ठस्त्रिविष्टपं शक्र इवामितौजा:' (वनप. २४.२१) इति ।
 
13