2023-02-21 08:46:41 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
वृन्दैरावन्द्य-मुक्तेन्द्वहिमगु-मदनाहीन्द्र-देवेन्द्र-सेव्ये
मौकुन्दे मन्दिरेऽस्मिन्नविरतमुदयन्मोदिनां देव-देव ॥ १० ॥
(कविक.)
वैकुण्ठे भासन्त इत्युक्तम् । तमेव वैकुण्ठं वर्णयति– आनन्दा-
निति । हे देवदेव देवश्रेष्ठ । मृदूनि प्रतीयमानार्थानि पदानि सुप्तिङन्तरूपाणि
यस्मिन् कर्मणि तत् । उदितानि उदीरितानि उद्गीतानि उत्कृष्टगानानि यैः ।
'गीतं गानमिमे समे' इत्यमरः । 'शेषाद्विभाषा' (अ.सू. ५.४.१५४) इति
कप्प्रत्ययः । तैस्तथोक्तैः । सुन्दरीणां सुराङ्गनानां[^१] वृन्दैः समूहैः । आवन्द्याः
आ समन्तात् सेव्याः । मुक्ताः प्राप्तमुक्तयः । 'मुक्ता तु मौक्तिके मुक्तः
प्राप्तमुक्तौ च मोचिते' इति यादवः । इन्दुश्चन्द्रः । अहिमगुः सूर्यः । मदनो
मन्मथः । अहीन्द्रः शेषः । देवेन्द्रः सुरपतिश्च । तैः[^२] सेव्ये भजनीये । अस्मिन्
मुक्तास्पदत्वेन प्रस्तुते । मौकुन्दे, मुकुर्मोक्षः, तं ददातीति तस्य[^३] विष्णोः
सम्बन्धिनि । 'तस्येदम्' (अ.सू. ४.३.१२०) इत्यण् प्रत्ययः । मन्दिरे वैकुण्ठे
मन्दमन्दाः अतिशयेन मन्दाः । 'नित्यवीप्सयोः' (अ.सू.८.१.४) इति
द्विर्वचनम्[^४] । कुन्दानि माघ्यानि । अल्पमल्लिकापुष्पाणीत्यर्थः । मन्दाराणि
मन्दाराख्यविशेषकुसुमानि[^५] । 'फले लुक्' (अ.सू.४.३.१६३) इति लुक् ।
नन्द्यावर्तानि नन्दिवर्धनकुसुमानि । तेषामामोदाः गन्धाः । 'आमोदो गन्ध-
हर्षयोः' इति विश्वः । तान् दधानाः वहन्तः मरुतः वायवः । अविरतमनारतं[^६]
[^१] 'सुन्दराङ्गनानाम्' इति पा.।
[^२] 'एतैः' इति पा. ।
[^३] 'तं ददाति यस्तस्य' इति पा. ।
[^४] सूत्रे नित्यपदोदितमाभीक्ष्ण्यमर्थादाधिक्ये पर्यवस्यतीति भावः। तथाहि भारविः-- 'मन्दमन्दमुदितः
प्रययौ स्वं भीतभीत इव शीतमयूखः' (किरात.९.२६) इति । 'आधिक्ये द्वे वाच्ये' इति वार्तिकेन
द्विर्वचनमित्येके । अप्रसिद्धेस्तादृशवार्तिकस्यैवाभाव इत्यपरे । मन्देभ्योऽपि मन्दा मन्दमन्दा इति
समाधेयमित्यन्ये । तेन मान्द्ये स्फुटमतिशयोऽवगम्यते । यथाऽह ज्ञानेन्द्रसरस्वती– 'भीतेभ्योऽपि भीत
इति कथञ्चिद् व्याख्येयम् । तेनातिभीत इति फलितम्' इति ।
[^५]'कुन्दानि (कुन्द) कुसुमानि । मन्दराणि मन्दारकुसुमानि' इति पा. ।
[^६]'अरिरतमनवरतम्' इति पा. ।