2023-02-20 14:40:45 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
घुरच्' (अ.सू.३.२.१६१) । सह चरन्तीति सहचरा भृत्याः । तैश्चलितै-
र्वीजितैश्चामरैः प्रकीर्णकैः[^१] । 'चामरं तु प्रकीर्णकम्' इत्यमरः । चारुर्मनोहरो
वेषोऽलङ्कारो येषां ते । 'आकल्पवेषौ नेपथ्यम्' इत्यमरः । कण्ठलग्नानां
ग्रीवासक्तानाम् । स्थिरैर्निश्चलैः । शुचिभिर्मनोहरैः[^२] । विलसत्कान्तिभिर्भास-
मानद्युतिभिश्च । तारुण्येन यौवनेन च । 'तारुण्यं यौवनं समे' इत्यमरः ।
लीलाभिः शृङ्गारचेष्टाभिश्च । लावण्येन प्रसिद्भाववातिरिक्तच्छाया-
तरळत्वेन च[^३] ।
तदुक्तम्--
'मुक्ताफलेषु च्छायायास्तरळत्वमिवान्तरा।
'प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते' इति ॥
एतैरापूर्णानां आढ्यानां कान्तानां अङ्गनानां सम्बन्धिनः कुचभरस्य स्तन-
भारस्य यः सुलभाश्लेषः सुलभालिङ्गनं तेन जातः सम्मोदो हर्षस्तेन सान्द्राः
समृद्धाः सन्तो वैकुण्ठे विष्णुलोके भासन्ते राजन्ते ॥ ९ ॥
(स्तुतिचं.) तृतीयं भावं भुवि भवनमवतारं मध्वाख्यम् । वैकुण्ठे
भासन्ते । सहचराः सहैव चरन्ति ये दासाः । कण्ठसंसक्तानां नित्यनिर्मल-
मधुरद्युतीनां तारुण्यलीलया लावण्येन च सम्भृतानां सुन्दरीणाम् ।
तादृशद्युतेस्तारुण्यस्य च लीलया । पयोधरभारस्य सुलभपरिरम्भणेन हर्ष-
निर्भराः । न हि स्त्रीरमणं नाम दोषः । सहजा हि प्रकृतिः स्वरूपमनु-
बध्नाति । श्रूयते हि–'स्त्रीभिर्यानैर्वा' इति ॥ ९ ॥
आनन्दान् मन्द-मन्दा ददति हि मरुतः कुन्द-मन्दार-नन्द्या-
वर्त्तामोदान् दधाना मृदु-पदमुदितोद्गीतकैः सुन्दरीणाम् ।
[^१] 'प्रकीर्णकैः करणैः' इति पा. ।
[^२] 'स्थिरैरनवरतैरनश्वरैः। शुचिभिर्मनोज्ञैः' इति पा. ।
[^३] 'लीला शृङ्गारचेष्टा । लावण्यं प्रसिद्धावयवातिरिक्तच्छायातरलत्वम्' इति पा. ।