This page has not been fully proofread.

२२
 
वायुस्तुतिः
 
लोकः । 'गीर्वाणा ऋभवोऽमराश्च मरुतः' इति च । एवं लोकत्रयं येन तव
भ्रूविभ्रमेण अदारि अधारि समभावि च । सोऽयं सर्वं लोकजातमभिभवन्
अधः कुर्वन् तव भ्रूविलास: मायावादिभिक्षून् बभ्रूनिव सुभृशं भ्रमयतु
विभ्रान्तविक्षिप्तचित्तान् करोतु । 'बभ्रुः स्यान्नकुले च' इति च । बभ्रुवो हि
सदाऽनवस्थिताः परिभ्रमन्ति । अथवा ते भ्रूभङ्गः बभ्रुरिव तान् भ्रमयतु ।
बभ्रुरिति वह्निः । 'बभ्रुर्विशाले नकुले कृशानौ' इति चान्यत्र । यथा दवाग्नि-
र्वन्यं प्राणिजातं भ्रमयति । भेदप्रतीतिर्भ्रान्तिरेव यतो यत् प्रतीयते न तद्
विद्यते । इत्येवं दुष्टं भृता आशा यैस्तान् । भयमन्धे तमसि भोक्ष्यमाणान्,
भावि भयमविद्योपासनेन निरन्तरं रक्षिष्यतो वा भिक्षून् ॥ ८ ॥
 
येऽमुं भावं भजन्ते सुर-मुख-सु-जनाराधितं ते तृतीयं
भासन्ते भासुरैस्ते सह-चर-चलितैश्चामरैश्चारु- वेषाः ।
बैकुण्ठे कण्ठ-लग्न-स्थिर - शुचि - विलसत् - कान्ति- तारुण्य-लीला-
लावण्यापूर्ण-कान्ता-कुच-भर-सुलभाइलेष-सम्मोद-सान्द्राः ॥
 
॥ ९॥
 

 
(कविक.) अत्र श्रीवायोस्तृतीयावतारः सुरनरोत्तमादिसेवितः, एतत्सेवया
वैकुण्ठपदप्राप्तिः, वैकुण्ठपदं सर्वोत्कृष्टम्, वैकुण्ठपदे नित्यनिर्दोषस्वेच्छा-
नुरूपसुखानि सन्ति, चतुर्मुखमुखमुक्तानां मुक्तावपि पूर्ववन्नीचोच्चत्वेनाव-
स्थानमित्याह– येऽमुं भावमिति । हे 'श्रीवायो, ये ॰जनाः, सुराः मुखानि
मुख्याः । 'मुखं मुख्ये च वक्त्रे स्यात्' इति विश्वः । येषां तैः सुजनैः सज्जनैः
आराधितं सेवितम् । तृतीयं त्रयाणां पूरणम् । 'त्रेः सम्प्रसारणं च'
(अ.सू. ५.२.५५) इति तीयप्रत्ययः । अनुं स्तुत्यत्वेन प्रकृतं ते तव
भावमवतारं भजन्ते सेवन्ते । ते जनाः । भासुरैर्भासनशीलैः। 'भञ्जभासमिदो
१. 'हे पवन' इति पा. ।
 
२. 'ये सुजना:' इति पा. ।