This page has been fully proofread once and needs a second look.

२२
 
वायुस्तुतिः
 
लोकः । 'गीर्वाणा ऋभवोऽमराश्च मरुतः' इति च । एवं लोकत्रयं येन तव

भ्रूविभ्रमेण अदारि अधारि समभावि च । सोऽयं सर्वं लोकजातमभिभवन्

अधः कुर्वन् तव भ्रूविलास: मायावादिभिक्षून् बभ्रूनिव सुभृशं भ्रमयतु

विभ्रान्तविक्षिप्तचित्तान् करोतु । 'बभ्रुः स्यान्नकुले च' इति च । बभ्रुवो हि

सदाऽनवस्थिताः परिभ्रमन्ति । अथवा ते भ्रूभङ्गः बभ्रुरिव तान् भ्रमयतु ।

बभ्रुरिति वह्निः । 'बभ्रुर्विशाले नकुले कृशानौ' इति चान्यत्र । यथा दवाग्नि-

र्वन्यं प्राणिजातं भ्रमयति । भेदप्रतीतिर्भ्रान्तिरेव यतो यत् प्रतीयते न तद्

विद्यते । इत्येवं दुष्टं भृता आशा यैस्तान् । भयमन्धे तमसि भोक्ष्यमाणान्,

भावि भयमविद्योपासनेन निरन्तरं रक्षिष्यतो वा भिक्षून् ॥ ८ ॥
 

 
येऽमुं भावं भजन्ते सुर-मुख-सु-जनाराधितं ते तृतीयं

भासन्ते भासुरैस्ते सह-चर-चलितैश्चामरैश्चारु- वेषाः ।

बैकुण्ठे कण्ठ-लग्न-स्थिर - शुचि - विलसत् - कान्ति- तारुण्य-लीला-

लावण्यापूर्ण-कान्ता-कुच-भर-सुलभाश्लेष-सम्मोद-सान्द्राः ॥
 

॥ ९॥
 

 

 
(कविक.) अत्र श्रीवायोस्तृतीयावतारः सुरनरोत्तमादिसेवितः, एतत्सेवया

वैकुण्ठपदप्राप्तिः, वैकुण्ठपदं सर्वोत्कृष्टम्, वैकुण्ठपदे नित्यनिर्दोषस्वेच्छा-

नुरूपसुखानि सन्ति, चतुर्मुखमुखमुक्तानां मुक्तावपि पूर्ववन्नीचोच्चत्वेनाव-

स्थानमित्याह– येऽमुं भावमिति । हे '[^१]श्रीवायो, ये [^२]जनाः, सुराः मुखानि

मुख्याः । 'मुखं मुख्ये च वक्त्रे स्यात्' इति विश्वः । येषां तैः सुजनैः सज्जनैः

आराधितं सेवितम् । तृतीयं त्रयाणां पूरणम् । 'त्रेः सम्प्रसारणं च'

(अ.सू. ५.२.५५) इति तीयप्रत्ययः । अनुं स्तुत्यत्वेन प्रकृतं ते तव

भावमवतारं भजन्ते सेवन्ते । ते जनाः । भासुरैर्भासनशीलैः। 'भञ्जभासमिदो

 
[^
.] 'हे पवन' इति पा. ।
 

 
[^
.] 'ये सुजना:' इति पा. ।