This page has not been fully proofread.

श्लो. ८
 
२१
 
'भुवश्च'(अ.सू.३.२.१३८) इत्यनुक्तसमुच्चयार्थाच्चकारादिष्णुच् प्रत्ययः ।
प्रयोगश्च–'भ्राजिष्णुना लोहितचन्दनेन' इति' । भूर्भूमिः । ऋभूणां देवा-
नाम् । 'आदित्या ऋभवोऽस्वप्नाः' इत्यमरः । भवनं वेश्म सुरलोकोऽपि ।
अभेदि व्यदारि । भिदेः कर्मणि लुङि, 'चिण् भावकर्मणोः' (अ.सू.३.१.६६)
इति चिण् । 'चिणो लुक्' (अ.सू.६.४.१०४) । बभ्रे । 'डु भृञ्
धारणपोषणयोः' इत्यस्मात् (कर्मणि) लिट् । बभूवे लेभे । 'भू प्राप्तौ'
इत्यस्मात् कर्मणि लिट् । नभोभूरृभुभवनानामस्योदश्चितभ्रूविलासमात्रेण
सृष्टिस्थितिलया भवन्तीत्यभिप्रायः । अभिभावत' विपक्षान् निराकरोतीत्य-
भिभूः स भ्रूविभ्रमः । बभ्रुर्नकुलः । तद्वदुर्भृता दुष्टं भृता चञ्चलतया धृता
आशा इच्छा यैस्तान् । भेदः', जीवेश्वरजडादीनां यः परस्परं पञ्चधा भेदः
सत्यत्वेन 'यच्चिकेत सत्यम्' इत्यादिप्रमाणसिद्धः तस्यावभासः प्रतीतिः
शुक्तिरजतवद् भ्रान्तिः मिथ्येति वदतः । अत एवान्यथाज्ञानेन भयमन्धतमसे—
भोक्ष्यतः अनुभविष्यतः मायिभिक्षून् मायिमस्करिणः सुभृशं अत्यर्थं भ्रमयतु
मोहितान् करोतु । 'भ्रमु अनवस्थाने' इत्यस्माल्लोट् ॥ ८ ॥
 
(स्तुतिचं.) अभ्रं मेघोऽपां भरणात् । न भ्राजते वा धूम्रतया । साभ्रं नभो
विशिष्य वर्षासु । उष्णगभस्तिर्भानुः । सभानु विशिष्य निदाघे । शुभ्रप्रभः
शशी । सशशि विशिष्य शरदि शिशिरे च । तेन सर्वकालं सर्वधर्माणां
साभिमानिनां नियमनमाह । भूभुजां भूरिविभवैर्भ्राजमाना भूमिः । सभूभुक्
सविभूतिश्च भूमिः । ऋभूणां देवानां भवनं स्वर्ग: । ससुरगणः स्वर्ग-
१. 'कुङ्कुमं घुसृणं वर्णं प्रोक्तं लोहितचन्दनम्' इत्यभिधानम्।
 
२. 'इत्यस्माद् धातोर्लिट्' इति पा ।
 
४. 'अपि तु अभिभावयति' इति पा. ।
 
'बभ्रुः स्यान्नकुलेऽपि च' इत्यभिधानम् । 'बभ्रुर्ना नकुले' इति चान्यत्र । मार्जारो वा बभ्रुरित्येके ।
६. 'भेदावभासः' इति पा । ७. जीवेश्वरजडानामित्येव पर्याप्तम् । आदिपदं लिपिकृत्प्रमादायातम् ।
 
८. 'भयमन्धतमसं दुःखम्' इति पा ।
 
३. ' – भवनानां यत्कटाक्षमात्रेण' इति पा. ।
 
11