This page has been fully proofread once and needs a second look.

२०
 
'माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः ।
 

'स्नेहो भक्तिरिति प्रोक्तस्तया मुक्तिर्नचान्यथा' इति ।
 
बायुस्तुतिः
 

 
इह अस्मिन् संसारे । अत्यन्तं निरवधिकं सन्तापभाजां बुभुक्षापिपासादि-

षडूर्मिप्रतिहतिप्राप्तदुःखानामस्माकं प्रदिश प्रतिपादय ॥ ७॥
 

 
( स्तुतिचं.) इह भुवि दृष्टिगोचराय तुभ्यमेषोऽञ्जलिः । भुवि भजतः

सज्जनस्य विषये कारुणिकतया तस्य भवपाशच्छेत्रे । छित्वा मौक्तानां

सुखानां दात्रे । 'वायुश्च तदनुज्ञया' इति हि स्मरन्ति । द्यौः भारती ।

एकामनन्यां भक्तिम् । भगवतो माधवस्य । अथ वायोस्त उत तवापि । हन्तेति

सन्तापभाक्त्वस्य शोचति स्मरन् । हन्तेति गुरुकृपामास्वादयति प्रहृष्यन् ।

'शोचने सम्प्रहर्षे च हन्तशब्दः प्रयुज्यते' इति च ॥ ७ ॥
 

 
साम्रोष्णाभीशु-शुभ्र-प्रभमभय नभो भूरि-भूभृद्- विभूति-

भ्राजिष्णुर्भूरभूणां भवनमपि विभोऽभेदि बभ्रे बभूवे ।

येन भ्रू-विभ्रमस्ते भ्रमयतु सुभृशं बभ्रुवद् दुर्भृताशान्

भ्रान्तिर्भेदावभासस्त्विति भयमभि-भूर्भोक्ष्यतो मायि-भिक्षून् ॥
 

॥ ८॥
 

 
(कविक.) अतीतश्लोके भक्तिं याचितस्य भगवतः श्रीवायोर्भूविभ्रमस्या-

नेकसामर्थ्यं वर्णयति- साभ्रेति । न विद्यते भयं यस्य तस्य सम्बुद्धि-

रभय । विभो व्यापकौंक[^१] । ते तब येन भ्रूविभ्रमेण । अभ्राणि मेघाः । 'अभ्रं

मेघो वारिवाहः' इत्यमरः । उष्णाभीशुरुष्णरश्मिः सूर्यः । शुभ्रप्रभः शुभ्रां-

शुश्चन्द्रः । तैः सह वर्तते यत् । 'तेन सहेति तुल्ययोगे' (अ.सू.२.२.२८)

इति बहुव्रीहिः । नभोऽन्तरिक्षम् । 'नभोऽन्तरिक्षं गगनम्' इत्यमरः । भूरिः

प्रभूता या भूभृतां राज्ञां विभूतिरैश्वर्यं तया भ्राजिष्णुर्भासनशीला ।

 
[^
.] 'विभो स्वामिन्' इति पा. ।