This page has been fully proofread once and needs a second look.

मूर्द्धन्येषोऽञ्जलिर्म्मे दृढ-तरमिह ते बद्ध्यते बन्ध-पाश-
च्छेत्रे दात्रे सुखानां भजति भुवि भविष्यद्-विधात्रे द्यु-भर्त्त्रे ।
अत्यन्तं सन्ततं त्वं प्रदिश पदयुगे हन्त सन्ताप-भाजा-
मस्माकं भक्तिमेकां भगवत उत ते माधवस्याथ वायोः ॥
॥ ७॥
 
(कविक.) कारुण्यकटाक्षवीक्षामात्रेण[^१] संसारबन्धच्छेदकं[^२] मोक्षसुखदायकं
भविष्यद्ब्रह्माणं श्रीमद्भगवद्भारतीनाथं प्रणमन् श्रीविष्णौ श्रीवायौ च मुक्ति-
हेतुं भक्तिं याचते– मूर्धनीति । हे श्रीवायो । भुवि भूलोके[^३]। भजति सेवके
जने । अधिकरणविवक्षायां सप्तमी । बध्यते येन स बन्धः संसारः । स एव
पाशः । तस्य च्छेत्रे छेदकाय । सुखानामानन्दानां दात्रे प्रदायकाय ।
भविष्यद्विधात्रे भाविब्रह्मणे[^४] । दिवः ज्ञानादिगुणसम्पन्नायाः भारत्याः ।
दीव्यतेः क्विप् । भर्त्रे पत्ये । ते तुभ्यम् । एषः वर्तमानविशिष्टः[^५] । मे मम
सम्बन्धी । अञ्जलिः करकमलमुकुलीभावः । मूर्धनि शिरसि । दृढतरं अतिदृढं
सन्ततं निरन्तरं बध्यते ध्रियते[^6] । हन्तेति हर्षे । अनेन प्रणामेनाहो अद्य खलु
मे जन्म सफलमिति हर्षः । त्वं, भगवतः माधवस्य श्रीपतेः । वायोः
मुख्यप्राणस्य[^७] ते तव उत । उतेति चार्थे । अव्ययानामनेकार्थत्वात् । पदयुगे
चरणयुगले[^८] । एकां मुख्याम् । निर्व्याजां निश्चलां नित्यानन्दस्वरूपिणीमि-
त्यर्थः[^९] । भक्तिं माहात्म्यज्ञानपूर्वकं सुदृढं सर्वाधिकमुत्तमविषयं[^१०] स्नेहमि-
त्यर्थः । तथोक्तम्--
 
[^१] ' – वीक्षणमात्रेण' इति पा ।
 
[^२] '–बन्धनच्छेदकम्' इति पा. ।
 
[^३] 'भुवि लोके' इति पा. ।
 
[^४] 'भविष्यद्ब्रह्मणे' इति पा ।
 
[^५] वर्तमानकालविशिष्टः । वर्तमानकालिक इति यावत् ।
 
[^६] 'विधीयते' इति पा. ।
 
[^७] 'श्रीमुख्यप्राणस्य' इति पा. ।
 
[^८] 'चरणनलिनयुगले' इति पा. ।
 
[^९] ' – रूपिणीति यावत्' इति पा ।
 
[^१०]. '– विषयस्नेहमित्यर्थः' इति पा. ।