This page has been fully proofread once and needs a second look.

वायुस्तुतिः
 

 
स्थितावर्तविशेषः । स एवाङ्क: चिह्नं यस्य तस्य[^१] श्रीविष्णोरधिवासः

सन्निधानम् । अन्यत्राऽश्रयः । तस्योचिततराः अत्यन्तयोग्या गरुडमृडा-

दयः । तेषु सरळ: उदार: । 'दक्षिणे सरळोदरौ' इत्यमरः'[^२] । 'पूर्वेपूर्वे यतो

विष्णोः सन्निधानं क्रमाधिकम्' इति । [^३]अन्यत्र उचिततरा: श्वेतद्वीपा-

दयः । तेषु सरळः हृद्यः"[^४] । 'हृद्यं वैवाहिकं गृहम्' इति लोकप्रसिद्धेः । स

चासौ श्रीमदानन्दतीर्थश्च । स एव क्षीराम्भोधिः क्षीरसमुद्रः । भवत् जायमानं

भूरि बहु मे मम अनभिमतं अनिष्टम् । अथवा मे मम च भवतां श्रीविष्णु-

भक्तानामिति वा योजना'[^५] । विभिन्द्यात् छिन्द्यात् । रुधादेर्भिदेर्लिङ् ॥६॥

 
( स्तुतिचं.) संसारे उत्कटा उद्दामाश्च ये तापास्तेषां नित्योपशमदः सदयश्च

स्नेहसम्भृतो हासः । स एवाम्बुपूरो मध्ववारिधेः । 'पूरः स्यादम्भसो वृद्धिः'

इति च । तत्र प्रोद्यन्त्यो विद्या एवानवद्यद्युतयो मणयः । 'अधममवद्यं

निकृष्टमपकृष्टम्' इति च। 'श्रीवत्साङ्कः श्रीपतिः पीतवासाः' इति च । वक्षसि

श्रीवत्सेनाङ्कितः । श्रियो वत्सः प्राणो यस्य चाङ्के । श्रीर्दयिता वत्सः प्राणश्च

यस्याङ्क इति वा । स्मरन्ति च 'अङ्कं श्रिता श्रीः' इति, 'अच्युताङ्के स्वासीनम्'

इति च । तस्याधिकसन्निधानायोचिततमः। 'यत्रोभयोः प्रयोगो न तत्रैकार्थी

तरप्तमौ' इति च स्म हि स्मरन्ति । सरळः ऋजुरकुटिलः । भूतेः श्रिय

उद्भवहेतुः क्षीराम्भोधिः । भूतेरुन्नतेर्हेतुर्मध्वदुग्धाब्धिः । विशेषतश्च मे । स

मम भवत् सम्भावितं अनभिमतं दुरितं विभिन्द्यात् । भवतामनभिमतं मम

चेति वा ॥ ६ ॥
 

 
[^

 
-
 
१.
] 'तस्य विष्णोः' इति पा. ।
 

 
[^
.] प्रकृते नातितरामुपयुज्यते कोशवचनमिदम् । उत्कर्षः किलात्र विवक्षितोऽर्थः । न दाक्षिण्यम् । 'उदारो

दातृमहतो:' इति हि मेदिनी । उचिततरा गरुडमृडादयः । आनन्दतीर्थ उचिततम इत्यर्थः ।
 

 
[^
.] 'इतरत्र' इति पा. ।
 

 
[^
.] आर्जवं हि सरलार्थः । तदेव च हृद्यं यदृजु । आर्जवं हि हृदयमावर्जयति ।
 

 
[^५]
मे भूतिहेतुरिति यथाश्रुतं वा योजनीयम् ।