This page has been fully proofread once and needs a second look.

उद्यन्ती या विद्युत् तद्वत्प्रचण्डां भासमानाम् । वीर्येण बलेन उद्धार्यां उद्धर्तुं
शक्याम् । 'ऋहलोर्ण्यत्' (अ.सू. ३.१.१२४) इति ण्यत् । गदाग्र्यां श्रेष्ठ-
गदाम् । अभ्युदितः अभ्युदयमारभमाणो[^१] यो दिनकरस्तस्य आभेव आभा
यस्य तत् । अङ्गदं केयूरम् । 'केयूरमङ्गदं तुल्ये' इत्यमरः । तेनाऽढ्यः उज्ज्वलः
प्रकाण्डः कराग्रांसमध्यप्रदेशो यस्य[^२] । अथवा प्रकाण्डः श्रेष्ठः। 'प्रकाण्ड-
मुद्धतल्लजौ' इत्यमरः[^३] । तस्मिन् भुजे बिभ्रद् दधानः । अध्यात्मं परमात्मविषयं
ज्ञानम् । तस्य नेता प्रापकः । अत्र कर्मणः शेषत्वविवक्षायां षष्ठी ।
तस्मात्तृजन्तेन[^४] समासो युज्यते । न कृल्लक्षणषष्ठ्या । 'तृजकाभ्यां
कर्तरि'(अ.सू.२.२.१५) इति कृल्लक्षणषष्ठीसमासप्रतिषेधात् । यतिवरेषु
यतिश्रेष्ठेषु महितः महान् । अत एव भूमिभूषामणिः भूमण्डलमण्डनमणि-
र्भवति । सोऽयमवतारोचितव्यापारो वायुदेवः श्रीमुख्यप्राणनाथः मे मम
सुमतिं स्तुत्यादिकरणचातुरीचणां बुद्धिं विदध्यात् । दधातेर्लिङि यासुटि
'इनाभ्यस्तयोरातः' (अ.सू.६.४.११२) इत्याकारलोपे रूपम् । गदाग्य्रां
बिभ्रदित्यनेन दुष्टनिग्रहार्थो भीमावतारो दर्शितः । अध्यात्मज्ञाननेतेत्यनेन
'ज्ञानानन्दाद्यखिलगुणमूर्तिः सर्वदा[^५] सर्वजीवादिभ्योऽत्यन्तभिन्नः सर्वान्त-
र्यामी श्रीनारायणः' इत्येवंरूपस्य ज्ञानस्य प्रकाशकत्वं मध्वावतारस्य प्रयो-
जनमिति प्रकटितम् ॥ ५ ॥
 
(स्तुतिचं.) रुचीनां रोचिषां निकरः । उद्यद्विद्युत्प्रखरां गदाग्य्रां भुजे बिभ्रद्
भीमावतारो वायुदेवो मे सुमतिं विदध्यात् । मूलरूपे च गदां बिभ्रद्
 
[^१] 'अभ्युदितः अतिशयेन उदितः' इति पा ।
 
[^२] अत्र कराग्रपदेन कपोणिपर्यन्तः करावयवो गृह्यते। 'यस्य तस्मिन् । अथवोज्वल एव प्रकाण्ड:'
इति पा. ।
 
[^३] प्रकाण्डमिति नपुंसकत्वमशिष्यम् । अत एव 'प्रकाण्डो विटपे शस्ते' इति विश्वप्रकाशः । अस्त्रियामिति
तु वक्तव्यम् । तथा ह्यन्यत्र - 'अस्त्री प्रकाण्डो विटपे तरुस्कन्धप्रशस्तयोः' इति ।
 
[^४] 'तस्य तृजन्तेन' इति पा. ।
 
[^५] 'सदा' इति पा. ।
 
[^६] 'मध्वावतारप्रयोजनमिति' इति पा. ।