This page has been fully proofread once and needs a second look.

१६
 
बायुस्तुतिः
 

 
उद्यन्ती या विद्युत् तद्वत्प्रचण्डां भासमानाम् । वीर्येण बलेन उद्धार्यां उद्धर्तुं

शक्याम् । 'ऋहलोर्ण्यत्' (अ.सू. ३.१.१२४) इति ण्यत् । गदाग्र्यां श्रेष्ठ-

गदाम् । अभ्युदितः अभ्युदयमारभमाणो[^१] यो दिनकरस्तस्य आभेव आभा

यस्य तत् । अङ्गदं केयूरम् । 'केयूरमङ्गदं तुल्ये' इत्यमरः । तेनाऽढ्यः उज्ज्वलः

प्रकाण्डः कराग्रांसमध्यप्रदेशो यस्य[^२] । अथवा प्रकाण्डः श्रेष्ठः। 'प्रकाण्ड-

मुद्धतल्लजौ' इत्यमरः[^३] । तस्मिन् भुजे बिभ्रद् दधानः । अध्यात्मं परमात्मविषयं

ज्ञानम् । तस्य नेता प्रापकः । अत्र कर्मणः शेषत्वविवक्षायां षष्ठी ।

तस्मात्तृजन्तेनौंन[^४] समासो युज्यते । न कृल्लक्षणषष्ठ्चाया । 'तृजकाभ्यां

कर्तरि'(अ.सू.२.२.१५) इति कृल्लक्षणषष्ठीसमासप्रतिषेधात् । यतिवरेषु

यतिश्रेष्ठेषु महितः महान् । अत एव भूमिभूषामणिः भूमण्डलमण्डनमणि-

र्भवति । सोऽयमवतारोचितव्यापारो वायुदेवः श्रीमुख्यप्राणनाथः मे मम

सुमतिं स्तुत्यादिकरणचातुरीचणां बुद्धिं विदध्यात् । दधातेर्लिङि यासुटि

'इनाभ्यस्तयोरातः' (अ.सू.६.४.११२) इत्याकारलोपे रूपम् । गदाग्य्रां

बिभ्रदित्यनेन दुष्टनिग्रहार्थो भीमावतारो दर्शितः । अध्यात्मज्ञाननेतेत्यनेन

'ज्ञानानन्दाद्यखिलगुणमूर्तिः सर्वदा'[^५] सर्वजीवादिभ्योऽत्यन्तभिन्नः सर्वान्त-

र्यामी श्रीनारायणः' इत्येवंरूपस्य ज्ञानस्य प्रकाशकत्वं मध्वावतारस्य प्रयो-

जनमिति प्रकटितम् ॥ ५ ॥
 
-
 

 
(स्तुतिचं.) रुचीनां रोचिषां निकरः । उद्यद्विद्युत्प्रखरां गदाग्य्रां भुजे बिभ्रद्

भीमावतारो वायुदेवो मे सुमतिं विदध्यात् । मूलरूपे च गदां बिभ्रद्
 

 
[^
.] 'अभ्युदितः अतिशयेन उदितः' इति पा ।
 

 
[^
.] अत्र कराग्रपदेन कपोणिपर्यन्तः करावयवो गृह्यते। 'यस्य तस्मिन् । अथवोज्वल एव प्रकाण्ड:'

इति पा. ।
 

 
[^
.] प्रकाण्डमिति नपुंसकत्वमशिष्यम् । अत एव 'प्रकाण्डो विटपे शस्ते' इति विश्वप्रकाशः । अस्त्रियामिति

तु वक्तव्यम् । तथा ह्यन्यत्र - 'अस्त्री प्रकाण्डो विटपे तरुस्कन्धप्रशस्तयोः' इति ।
 

 
[^४]
'तस्य तृजन्तेन' इति पा. ।
 

 
[^५]
'सदा' इति पा. ।
 

 
[^६]
'मध्वावतारप्रयोजनमिति' इति पा. ।
 
४.
 
६.