This page has been fully proofread once and needs a second look.


 
यत्र च मूलभावो न स्फुटः, व्याख्याने च ग्रन्थकारहृदयं नातीव प्रकटम्,

व्याकरणकोशादिकं न विस्तारेण व्युत्पादितं तत्र जिज्ञासूनां सौकर्याय

मूलविवरणेन, व्याकरणविशेषव्युत्पादनेन, कोशोद्धाटनेन च

मूलव्याख्यानयोरर्थस्पाष्टचाट्याय तत्रतत्र यथानुकूलं समुचितां टिप्पणीं च

समयोजयम् । अर्थविशेषबुभुत्सूनामिदमपि सन्दर्भोपयोगि भवेदित्याशासे ।

व्याख्यानस्यास्य संशोधने मूलकोशादिदानेन बहुपकृतवतां सोदामठाधीश्वराणां

श्रीविश्वोत्तमतीर्थश्रीपादानां सहृदयतागर्भमनुग्रहं कथं नाम विस्मरामः? यदृते

तेषां सहकारादिदं शोधितं प्रकाशनमेवासम्भावितकल्पमभविष्यत् ।
 

 
अन्ते च क्लृप्तसमये सुन्दरं च ग्रन्थस्यास्य मुद्रणाय दिवानिशं कृतश्रमाः

धर्मबोधविद्युन्मुद्रणालयाधिकृता अप्यवश्यमभिनन्दनीयाः ।
 

 
शा.श. १८९४ ( उड्डुपि)

माघशुद्धनवमी
 

[24.1.1972]
 

 
- बन्नञ्जे गोविन्दाचार्यः

अम्बलपाडि
 

उडुपि-३