This page has not been fully proofread.


 
यत्र च मूलभावो न स्फुटः, व्याख्याने च ग्रन्थकारहृदयं नातीव प्रकटम्,
व्याकरणकोशादिकं न विस्तारेण व्युत्पादितं तत्र जिज्ञासूनां सौकर्याय
मूलविवरणेन, व्याकरणविशेषव्युत्पादनेन, कोशोद्धाटनेन च
मूलव्याख्यानयोरर्थस्पाष्टचाय तत्रतत्र यथानुकूलं समुचितां टिप्पणीं च
समयोजयम् । अर्थविशेषबुभुत्सूनामिदमपि सन्दर्भोपयोगि भवेदित्याशासे ।
व्याख्यानस्यास्य संशोधने मूलकोशादिदानेन बहुपकृतवतां सोदामठाधीश्वराणां
श्रीविश्वोत्तमतीर्थश्रीपादानां सहृदयतागर्भमनुग्रहं कथं नाम विस्मरामः? यदृते
तेषां सहकारादिदं शोधितं प्रकाशनमेवासम्भावितकल्पमभविष्यत् ।
 
अन्ते च क्लृप्तसमये सुन्दरं च ग्रन्थस्यास्य मुद्रणाय दिवानिशं कृतश्रमाः
धर्मबोधविद्युन्मुद्रणालयाधिकृता अप्यवश्यमभिनन्दनीयाः ।
 
शा.श. १८९४ ( उड्डुपि)
माघशुद्धनवमी
 
[24.1.1972]
 
- बन्नओ गोविन्दाचार्यः
अम्बलपाडि
 
उडुपि-३