This page has been fully proofread once and needs a second look.

स्मृतः' इति । श्रुतिश्च –' पवमानः प्रजापतिः' इति । अपगता विपद् यस्मात्
तस्य मारुतस्य संस्तवे शक्तो नास्मीति किमु वक्तव्यमित्यर्थः ॥ ४ ॥
 
(स्तुतिचं.) किमुत अस्य तादृशपांसुपरिगुण्ठितपादस्य पवमानस्य संस्तवे?
इहाद्य मध्वाख्यं मन्त्रसिद्धमवतारं कृतवतः । श्रूयते हि मन्त्रवर्णः–'यदीमनु
प्रदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति' इति । कलिमलेन
पिहितज्ञाने सज्जने ज्ञानमार्गमाविष्कर्तुकामम् । 'घुमणिरंशुमानंशुः' इति
च । फणिनायकः शेषः । वयोनायको वैनतेयः । 'वयो विहाया विहगो विहङ्गः'
इति च । आपन्नपुंसां पातारमवतारम् । पारमेष्ठ्यं पदं प्राप्तुरपगतविपदो
मारुतस्य संस्तवे ॥ ४ ॥
 
उद्यद्-विद्युत्-प्रचण्डां निज- रुचि - निकर व्याप्त लोकावकाशो
बिभ्रद् भीमो भुजे योऽभ्युदित- दिनकराभाङ्गदाढ्य-प्रकाण्डे ।
वीर्य्योद्धार्य्यां गदाग्र्यामयमिह सुमतिं वायु- देवो विदद्ध्या-
दद्ध्यात्म-ज्ञान-नेता यति बर महितो भूमि-भूषा-मणिर्मे ॥
॥ ५ ॥
 
(कविक.) एवं संस्तवे शक्त्यभावमुक्त्वाऽथ संस्तवादिसामर्थ्यहेतुं सद्बुद्धिं[^ ]
प्रार्थयते– उद्यदिति ॥ निजाः आत्मीयाः ये रुचीनां निकरास्तैर्व्याप्तः[^] रूषितः
लोकावकाशो भुवनप्रदेशो यस्य स तथोक्तः । यो वायुदेवो भीमः सन् ।
भृतानि[^] माः प्रमाणानि ऋगादयोऽस्मिन्निति व्युत्पत्त्याऽन्वर्थाऽस्य भीम-
सञ्ज्ञेत्यर्थः[^] । तथाहि भाववृत्ते[^ ]--
 
'भृतमो भीम इत्युक्तो वाचो मा मातरः स्मृताः ।
'ऋगाद्या इतिहासश्च पुराणं पञ्चरात्रकम् ।
'प्रोक्ताः सप्त शिवास्तत्र शयो भीमस्ततः स्मृतः' इति ।
 
[^.] 'सुबुद्धिम्' इति पा. ।
 
[^.] 'व्याप्तः लोकावकाशः' इति पा. ।
 
[^.] 'भृता: मा: प्रमाणानि' इति वक्तव्यम् । नियोगपर्यनुयोगविधुरा लिपिकाराः।
 
[^.] 'भीमसञ्ज्ञेत्यवगन्तव्या' इति पा. ।
 
[^.] 'भाववृत्तवचनम्' इति पा. ।