This page has been fully proofread once and needs a second look.

(कविक.) श्रीमच्चरणनळिनरेणूनपि स्तोतुमशक्तस्य प्रधानवायोः स्तुति-
करणे शक्तिः सुतरां नास्तीत्याह- अस्येति । अद्येदानीम् । इह भुवि ।
कलिकृतं मलं मिथ्याज्ञानम् । तेन ( कलुषे) कलुषिते, मलिनीभूते । अस्मिन्
जने ज्ञानयोग्ये जने, लोके[^] । ज्ञानमार्गं तत्वज्ञानसरणिम् । आविष्कर्तुं
प्रकटीकर्तुं कामः इच्छा यस्य तं तथोक्तम् । 'समानकर्तृकेषु तुमुन्'
(अ.सू.३.३.१५८) इति इच्छार्थोपपदे तुमुन् । 'तुङ्काममनसोरपि' इति
मकारलोपः[^] । अनेनावतारप्रयोजनं सूचितं भवति । चन्द्रेन्द्ररुद्राः
प्रसिद्धाः । द्युमणिः सूर्यः । नायक इत्युभयत्र सम्बध्यते । फणिनां नायकः
शेषः, वयसां पक्षिणां नायको गरुडः । 'खगबाल्यादिनोर्वयः' इत्यमरः ।
ते आद्या येषां तैर्देवैः । वन्द्यं अभिवादनस्तुतियोग्यम् । मन्त्रसिद्धम्– मन्त्रो
वेदो बळित्थादिः । तत्र सिद्धं प्रसिद्धम् । मध्वाख्यं मध्वनामकम् । अवतारं
प्रादुर्भावं कृतवतः । आपन्नपुंसां आर्तस्वभावानां पातारं रक्षितारम्[^] । 'कर्तृ-
कर्मणोः कृति' (अ.सू.२.३.६५) इति कर्मणि षष्ठी । पदं व्यवसितम् । 'पदं
व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । पारमेष्ठ्यं ब्रह्मत्वम् । ब्राह्म-
णादित्वात् ष्यञ् प्रत्ययः[^] । 'कर्तृकर्मणोः कृति' इति षष्ठी न भवति । 'न
लोका[^] —–'(अ.सू.२.३.६९) इत्यादिना प्रतिषेधात् । प्राप्तुः गन्तुः । शीलार्थे
तृन् । वायोर्ब्रह्मपदप्राप्तौ प्रमाणम्- 'वायुर्हि ब्रह्मतामेति तस्माद् ब्रह्मैव स
 
[^.] अत्र क्वचित् पाठन्तरम्– 'कलिकृतं मलं मिथ्याज्ञानम् । तदेव कलुषं दुरितं यस्य तस्मिन् । 'कलुषं
वृजिनैनोघमंहोदुरितदुष्कृतम्' इत्यमरः । अस्मिन् युगवर्तिनि जने ज्ञानमार्गम्–' इत्यादि ।
 
[^.] तथाहि समग्रं वचनम् – 'लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि ।
'समो वा हितततयोर्मांसस्य पचि युङ्घञो:' इति ।
 
[^.] सर्वत्र कोशेष्वेवमेव पाठः । परन्तु अन्वयासङ्गतेः 'आपन्नपुंसां आर्तस्वभावानां पातारं रक्षितारं अव-
तारं प्रादुर्भावं कृतवतः' इति पूर्वोत्तरवाक्यव्यत्यासेन पठनीयम्।
 
[^.] तथाहि सूत्रम्–'गुणवचनब्राह्मणादिभ्य: कर्मणि च' (अ.सू.५.१.१२४) इति । चकाराद् भावे च ।
तेन परमेष्ठिनो भावः पारमेष्ठ्यं ब्रह्मत्वम् । ब्राह्मणादिषु परमेष्ठिपदं न पठ्यते । आकृतिगणत्वात् तदपि
पठनीयमित्यर्थः।
 
[^.] क्वचित् 'न लोकाव्ययनिष्ठाखलर्थतृनाम्' इति समस्तं सूत्रं पठ्यते ।