This page has been fully proofread once and needs a second look.

वायुस्तुतिः
 

 
(कविक.) श्रीमच्चरणनळिनरेणूनपि स्तोतुमशक्तस्य प्रधानवायोः स्तुति-

करणे शक्तिः सुतरां नास्तीत्याह- अस्येति । अद्येदानीम् । इह भुवि ।

कलिकृतं मलं मिथ्याज्ञानम् । तेन ( कलुषे) कलुषिते, मलिनीभूते । अस्मिन्

जने ज्ञानयोग्ये जने, लोके । ज्ञानमार्गं तत्वज्ञानसरणिम् । आविष्कर्तुं

प्रकटीकर्तुं कामः इच्छा यस्य तं तथोक्तम् । 'समानकर्तृकेषु तुमुन्'

(अ.सू.३.३.१५८) इति इच्छार्थोपपदे तुमुन् । 'तुङ्काममनसोरपि' इति

मकारलोपः । अनेनावतारप्रयोजनं सूचितं भवति । चन्द्रेन्द्ररुद्राः

प्रसिद्धाः । द्युमणिः सूर्यः । नायक इत्युभयत्र सम्बध्यते । फणिनां नायकः

शेषः, वयसां पक्षिणां नायको गरुडः । 'खगबाल्यादिनोर्वयः' इत्यमरः ।

ते आद्या येषां तैर्देवैः । वन्द्यं अभिवादनस्तुतियोग्यम् । मन्त्रसिद्धम्– मन्त्रो

वेदो बळित्थादिः । तत्र सिद्धं प्रसिद्धम् । मध्वाख्यं मध्वनामकम् । अवतारं

प्रादुर्भावं कृतवतः । आपन्नपुंसां आर्तस्वभावानां पातारं रक्षितारम् । 'कर्तृ-

कर्मणोः कृति' (अ.सू.२.३.६५) इति कर्मणि षष्ठी । पदं व्यवसितम् । 'पदं

व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । पारमेष्ठ्यं ब्रह्मत्वम् । ब्राह्म-

णादित्वात् ष्यञ् प्रत्ययः" । 'कर्तृकर्मणोः कृति' इति षष्ठी न भवति । 'न

लोका—–'(अ.सू.२.३.६९) इत्यादिना प्रतिषेधात् । प्राप्तुः गन्तुः । शीलार्थे

तृन् । वायोर्ब्रह्मपदप्राप्तौ प्रमाणम्- 'वायुर्हि ब्रह्मतामेति तस्माद् ब्रह्मैव स
 

 
१. अत्र क्वचित् पाठन्तरम्– 'कलिकृतं मलं मिथ्याज्ञानम् । तदेव कलुषं दुरितं यस्य तस्मिन् । 'कलुषं

वृजिनैनोघमंहोदुरितदुष्कृतम्' इत्यमरः । अस्मिन् युगवर्तिनि जने ज्ञानमार्गम्–' इत्यादि ।
 

 
२. तथाहि समग्रं वचनम् – 'लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि ।
 

'समो वा हितततयोर्मांसस्य पचि युङ्घञो:' इति ।
 

 
३. सर्वत्र कोशेष्वेवमेव पाठः । परन्तु अन्वयासङ्गतेः 'आपन्नपुंसां आर्तस्वभावानां पातारं रक्षितारं अव-

तारं प्रादुर्भावं कृतवतः' इति पूर्वोत्तरवाक्यव्यत्यासेन पठनीयम्।
 

 
४. तथाहि सूत्रम्–'गुणवचनब्राह्मणादिभ्य: कर्मणि च' (अ.सू.५.१.१२४) इति । चकाराद् द्भावे च ।

तेन परमेष्ठिनो भावः पारमेष्ठ्यं ब्रह्मत्वम् । ब्राह्मणादिषु परमेष्ठिपदं न पठ्यते । आकृतिगणत्वात् तदपि

पठनीयमित्यर्थः।
 

 
. क्वचित् 'न लोकाव्ययनिष्ठाखलर्थतृनाम्' इति समस्तं सूत्रं पठ्यते ।