This page has been fully proofread once and needs a second look.

नाम् । पुनः कीदृशानाम्? दोषेणान्यथाज्ञानादिना प्रमुषितं कलुषितं मनो येषां
तेषाम्[^] , द्वेषिणां द्वेषणशीलानाम् । 'सम्पृचानु–' (अ.सू. ३.२.१४२) इत्या-
दिना शीलार्थे घिनुण् । दूषकाणां असत्प्रळापैर्दूषणं कुर्वतां दैत्यानामन्धे
तमसि आर्तिं व्यथां चिरं निरवधिककालं विदधतां कुर्वाणानाम् । एतेषां
पूर्वप्रस्तुतानां श्रीमदानन्दतीर्थश्रीमच्चरणरनळिनरेणूनां संस्तवे[^] सम्यक् स्तोत्र-
विषये शक्तो नास्मि । अत्र शक्त इति भूतकालः । अस्मीति वर्तमान-
कालः । अतः कालभेदे सत्यपि 'धातुसम्बन्धे प्रत्ययाः'(अ.सू.३. ४. १)
इति भूतकालो वर्तमानकालेनाभिसम्बध्यमानः साधुर्भवति । विशेषणं गुण-
त्वाद्द्विशेष्यमेवानुरुध्यत इति । एवं बहुविधसामर्थ्याचार्यवर्यश्रीमत्पादपद्म-
परागान् प्रस्तोतुमल्पज्ञस्य मे सामर्थ्य नास्तीत्यर्थः ॥ ३ ॥
 
(स्तुतिचं.) जन्मत आमृत्योराधिव्याधी । 'आधिस्तु मानसी पीडा' इति
च । जन्मादीनामुपाधिः शरीरम् । तस्य प्रतिजन्म हतिः । निरन्तरजनिमृतिरूपः
संसारः । तस्या विरहो मुक्तिः । उपाधिरविद्या वा । तेन प्रतिहतिः प्रतिरोधः
साधनस्य । विरहप्रापकाणां शमदमादिगुणानां साधकेष्वर्पका पांसवः । तेन
च नित्याभिव्यक्तज्ञानानन्दसन्दोहदाः । सन्दोहः समुच्चयः सम्यग्दोहो वा ।
भगबद्भागवतद्वेषिणां तद्दूषकाणां च पीडामन्धे तमसि विदधतां पांसूनां
परिचयने परिचित्य च स्तवने नास्मि शक्तः ॥ ३ ॥
 
अस्याविष्कर्त्तुकामं कलि-मल - कलुषेऽस्मिन् जने ज्ञान मार्ग्गं
वन्द्यं चन्द्रेन्द्र-रुद्र-द्युमणि-फणि-वयो-नायकाद्यैरिहाद्य ।
मध्वाख्यं मन्त्र - सिद्धं किमुत कृतवतो मारुतस्यावतारं
पातारं पारमेष्ठ्यं पदमप - विपदः प्राप्तुरापन्न - पुंसाम् ॥ ४ ॥
 
[^.] 'तेषां तथा द्वेषिणाम्' इति पा. ।
 
[^.] सम्पूर्वोऽपि स्तौतिः स्तुतौ वर्तते । 'संस्तव: स्यात्परिचयः' इति त्वर्थान्तरविधिरेव । न प्रतनार्थप्रति-
षेधः । तथाहि भगवता बादरायणेन प्रायोजि - 'एवं श्रीः संस्तुता सम्यक् प्राहादृश्या शतक्रतुम्'
(विष्णुपु. १.६.१२१) इति ।