This page has been fully proofread once and needs a second look.

अतति व्याप्नोतीत्यात्मा । औणादिको मनिण् प्रत्यय:१ । स चासावात्मा
च । परमात्मेत्यर्थः । तस्मिन् ज्ञानं अध्यात्मज्ञानम् । तेन धूतं निरस्तं
अन्धतमसमज्ञानं येषाम् । धूतपापा वा धूतान्धतमसाः । 'किल्बिषं तमः
कल्कम्' इत्यभिधानम् । अन्धतमसं महानरकविशेषो वा । 'अवसमन्धेभ्य-
स्तमसः' (अ.सू.५.४.७९) इति समासान्तोऽच् प्रत्ययः । ते च ते
सुमनसश्च । सुमनसो देवाः । 'मालत्यां पण्डिते पुष्पे देवे च सुमनोऽभिधा'
इति विश्वप्रकाशः । तेषां मौळयः किरीटाः । तेषु रत्नानि उत्कृष्टमणयः ।
तेषामावलयः । तासां तथोक्तानाम् । भक्तेरुद्रेकः उत्कर्षः तेनावगाढं
दृढम् । प्रघटनं सङ्घट्टनम् । तेन सधटात्कारम् । घटात्कारोऽनुकरणशब्दः ।
तेन सह वर्तनं यथा भवति तथा सङ्घृष्यमाणः सम्पीड्यमानः प्रान्तः पर्यन्तः
यस्य तत् । प्राग्र्यं श्रेष्ठम् । 'तत्र साधुः' (अ.सू.४.४.९८) इति
यत्प्रत्ययः२ । अङ्घ्रिपीठं पादपीठम् । तस्मादुत्थितानि ऊर्ध्वं गतानि कनकस्य
रजांसि । तैः पिञ्जरं यथा भवति तथा आरञ्जिताः समन्तादरुणीकृताः आशाः
दिशो यैस्ते तथोक्ताः । एवंविधप्रौढिमाटीकमानाः३ श्रीमदानन्दतीर्थ-
श्रीमच्चरणनळिनरेणवोऽस्मान् पुनन्त्विति पूर्वेण सम्बन्धः४ ॥ २ ॥
 
(स्तुतिचं.) द्वितीयं द्विपदा स्रग्धरा । पूर्वार्धमेकमुत्तरार्धमपरमिति । उत्तरार्धे
रजःपिञ्जराः रञ्जिताशाः इति भिन्ने वा पदे । औत्सुक्येन अमन्दाभ्यां
कोलाहलजवाभ्याम् । अमन्दकलकलेन वा जवेन । 'कुण्ठो मन्दः क्रियासु'
इति च । विजितया लब्धया सन्ततसेवया पवमानस्य । अनुक्षणं प्रवृद्धेन
प्राज्ञात्मनो नारायणस्य ज्ञानेन धूतान्धतमसाः सुमनसः सुराः । प्राज्ञ आत्मा
चेति प्राज्ञात्मा । प्राज्ञानामात्मा, प्राज्ञो यस्य वाऽत्मा । 'ज्ञानी त्वात्मैव
मे मतम्' इति हि भगवानाह । अन्धतमसं व्रजिनमज्ञानं वा । अन्धं तमो
 
१. तथाहि दशपादिका–'सातिभ्यां मनिन्मनिणौ' (६.८१) इति । स्यतीति साम । अततीत्यात्मा ।
 
२. सामान्यविधिरयम् । अग्रे भवः अग्य इति वक्तव्यम् । तथाहि पाणिनिः–'अग्राद् यत्'
(अ.सू.४.४.११६) इति ।
 
३. ' प्रौढमहिमानः' इति पा. ।
 
४. 'पूर्वेण योजना' इति पा. ।