This page has been fully proofread once and needs a second look.

जीवेष्वयमतिरिच्यते च । अत एव गुरुतमः । यत्र पांसुषु वाचां प्रणेत्री
वाग्देवता । वेदवाचां रुद्रादिषूपदेशेन च प्रणेत्री । शारदा भारती । शारं
विद्यया स्वातन्त्र्यं ददातीति । 'शरः स्वतन्त्र उद्दिष्टः शारं स्वातन्त्र्यमुच्यते'
इति ह्यभिदधति । शारं हिंसाकरत्वात् संसारमविद्यां वा द्यतीति वा । प्रेमभारं
बभार । शरदि भवस्येन्दोः विमलतया चन्द्रिकयेव भद्रया स्मितशोभया
धवळीकृतदिशा । 'भव्यं भद्रं च मङ्गलम्' इति, 'शोभार्थेऽपि प्रयुज्यन्ते
लक्ष्मीश्रीकान्तिविभ्रमाः' इति, 'शुभ्रो वलक्षो धवळः' इति, 'आशा ककुभः
काष्ठाः' इति च । ककुभेति तु यथा वाचा दिशा निशा ॥ १ ॥
 
उत्कण्ठाकुण्ठ-कोलाहल - जब- विदिताजस्र सेवानु- वृद्ध-
प्राज्ञात्म-ज्ञान- धूतान्धतमस-सुमनो मौळि- रत्नावलीनाम् ।
भक्त्युद्रेकाबगाढ - प्रघटन-सधटात्कार सङ्घृष्यमाण-
प्रान्त-प्राग्य्राङ्घ्रि-पीठोत्थित-कनक-रजः- पिञ्जरारञ्जिताशाः ॥
॥ २ ॥
 
( कविक.) पुनः किम्भूता इत्याकाङ्क्षायां तानेव विशिष्टि- उत्कण्ठेति ॥
उत्कण्ठा रणरणिका । अलब्धविषयवेदना । तदुक्तम्--
 
'रागे त्वलब्धविषये[^] वेदना महती तु या ।
'संशोषणी च गात्राणां तामुत्कण्ठां विदुर्बुधाः' इति ।
 
तया अकुण्ठौ प्रवृद्धौ । कोलाहलजवौ[^] कलकलसम्भ्रमवेगौ । ताभ्यां विदिता
ज्ञाता । अजस्रसेवा अनवरतपरिचर्या । तया अनुवृद्धं आनुपूर्व्येण प्रवृद्धम् ।
प्रकर्षेण जानातीति प्रज्ञः । प्रज्ञ एव प्राज्ञः । प्रज्ञादित्वात्स्वार्थेऽण् प्रत्ययः[^
 
] ।
 
[^
.] 'अलब्धविषया' इति पा. । अलब्धवस्तुविषयके रागे सति या वेदना ।
 
[^.] 'कोलाहल: कलकलस्तुमुलो व्याकुलो रव:' इति, 'वेगो रयो जवो वाज:' इति चाभिधानम् ।
 
[^.] प्रज्ञादित्वात् प्रज्ञादिगणपठितत्वादित्यर्थः । तथाहि पाणिनिः- 'प्रज्ञादिभ्यश्च' (अ.सू.५.४.३८)
इति । प्रज्ञ इत्यादिभ्यः स्वार्थेऽण् प्रत्ययो भवतीत्यर्थः। प्राज्ञः। प्राज्ञी।