2023-02-17 11:03:11 by ambuda-bot
This page has not been fully proofread.
श्लो. १
पुनः किम्भूताः ? त्रयाणां भुवनानां समाहारस्त्रिभुवनम् । 'पात्रादिभ्यः प्रतिषेधो
वक्तव्यः' (वा.२.४.१७) इति, 'द्विगो:' (अ.सू. ४.१.२१) इति ङीप् न
भवतिौं । त्रिभुवनेन महिता। मह पूजायामिति धातोः कर्मणि निष्ठा। शरदि
भवः शारदः । स चासाविन्दुश्च । तस्य ज्योत्स्ना । तद्वद् भद्रा स्मितस्य
श्रीः । तया धवळिताः ककुभो यया तथोक्ता । 'टापं चैव हलन्तानां यथा
वाचा निशा दिशा' इति 'ककुम्' शब्दात् टाप् । शारदा भारती प्रेमभारं
अनुरागसमृद्धिं बभार भृतवती । अत्रायमभिप्रायः । उद्यदादित्यचण्डप्रभा,
अभयवरज्ञानपुस्तकावितदोर्दण्डषण्डा भारती एतेष्वशेषदोषनिराकरणचणेषु
श्रीमदानन्दतीर्थपादपांसुष्वनुरक्तवतीत्युक्तौ तदवरगरुडकुण्डलीशमृडादिसुर-
सेव्यत्वमेषां (सुतरां ) प्रतीयत इति । अत्र जलजलेति द्वयोः स्वरव्यञ्जन-
योरनुवृत्त्या वृत्त्यनुप्रासो नामालङ्कारः' । आदौ लक्ष्मीदेवताकमगणप्रयोगादयं
स्तवो न केवलं कैवल्यप्रदः किन्तु क्षित्याद्यनेक श्रेयस्करश्चेति द्रष्टव्यम् ।
तदुक्तम् – 'लक्ष्मीर्मस्त्रिगुरुः क्षितिं वितनुते' इति ॥ १ ॥
॥ ॥
(स्तुतिचन्द्रिका)
लक्ष्मीशं तमनीशं परिपूर्णमनीपं च भारतीशम् ।
नत्वा त्रिविक्रमार्यं विहर मनस्तत्कृतावीषत् ॥ ॥
अथ कृतविष्णुस्तुतिः पण्डिताचार्यः सम्प्रति गुरुगुणस्रग्धरां स्तुतिमारच-
यति । श्रीमान् विष्णुः । श्रीमन्तौ वा कान्तिमन्तौ विष्णवची । विष्ण्वचिनिष्ठैव
अतिगुणः । तेन गुरुतमः । निष्ठयाऽतिगुणो गुणाधिक इति वा । विष्ण्वङ्घ्रिनिष्ठः
अतिगुणः गुणाधिक: गुरुतमश्च वा । अतिगुणः, भगवदनुग्रहेण त्रीन्
गुणानतिगत इव । विष्ण्वष्टिया वाऽतिगुणः । भगवतो गुणभूतेषु
१. तथाह्युदाजहार जयादित्यः- 'पञ्चपात्रम् । चतुर्युगम् । त्रिभुवनम्' इति ।
२. 'स्मितश्रीः' इति क्वचित् पाठः ।
३. '– दोर्दण्डा' इति पा. ।
४.
'स्वरव्यञ्जनयोरेकदैवानुवृत्त्याऽनुप्रासो नामालङ्कारः' इति पा. ।
5