2023-02-20 12:24:52 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
कविकुलशिरोमणिः सकलाचार्यवर्यो भगवांस्त्रिविक्रमाचार्यः प्रधानवायोरवता-
रत्रयतत्प्रयोजनज्ञानदानेन सज्जीवानुज्जीवयितुं वायुस्तुतिं चिकीर्षुश्चिकीर्षि-
तार्थाविघ्नपरिसमाप्त्यादि[^१] प्रयोजनसाधकम्,[^२] 'आशीर्नमस्क्रिया वस्तुनिर्देशो
वाऽपि तन्मुखम्' इत्याशीराद्यन्यतमस्य प्रबन्धमुखलक्षणत्वात् प्रबन्धमुखे
शिष्यशिक्षणार्थमाशीर्वादरूपं मङ्गलमादावङ्गीकरोति - श्रीमद्विष्णिवति[^३] ॥
श्रीरस्यास्तीति श्रीमान् । 'तदस्यास्त्यस्मिन्निति मतुप्' (अ.सू.५.२.
९४) । लक्ष्मीसमेतः । स चासौ विष्णुश्च । तस्य अङ्ग्री । तयोर्निष्ठा नितरामव-
स्थितिः । सैवातिगुणः । तेन गुरुतमाः। ते च ते श्रीमदानन्दतीर्थाश्च । त्रयो
लोकाः त्रैलोक्यम् । चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञ्[^४] । तस्याऽचार्याः ।
श्रीमदानन्दतीर्था एव त्रैलोक्याचार्याः । तेषां पादौ । तावेवोज्ज्वलजलजे ।
तत्र लसन्तः भासमानाः । ते च ते पांसवश्च । एतादृशाः पादपांसवः अस्मान्
पुनन्तु पावयन्तु[^५] विगलितकलुषान् कुर्वन्त्विति वाक्ययोजना । क्र्यादिकात्
'पूञ् पवने' इत्यस्माद्धातोः 'एरु:' (अ.सू. ३.४.८६) इत्युत्वे कृते आशिषि
लोट् प्रथमपुरुषबहुवचनम् । पुनस्तानेव विशिनष्टि । यत्र पांसुषु । वाचां प्रणेत्री
स्रष्ट्री[^६ ], प्रसुप्ता वाचः सञ्जीवयन्तीत्यर्थः । अन्यार्थश्च – वाचां सकलश्रुति-
स्मृतीतिहासपुराणादीनां द्विजफणिपमृडेन्द्रादीन् प्रत्युपक्रमोपसंहारादिषड्विध-
तात्पर्यलिङ्गैर्मुख्यवृत्त्या श्रीविष्णुपरत्वेन प्रणेत्री प्रतिपादयन्ती । तदुक्तं
ब्रह्माण्डे–-
'यस्याः प्रसादात् परमं विदन्ति शेषः सुपर्णो गिरिशः सुरेन्द्रः ।
'माता च यैषां प्रथमैव भारती सा द्रौपदी नाम बभूव भूमौ' इति ।
[^१.] 'चिकीर्षितग्रन्थपरिसमाप्त्यादि' इति पा. ।
[^२.] '–साधनकम्' इति पा. ।
[^३.] 'श्रीमद्विष्ण्वनीति' इति पा. ।
[^४.] तथाहि वार्तिकम्- 'चातुर्वर्ण्यादिभ्यः स्वार्थ उपसङ्ख्यानम्' (५.१.१२४) इति । व्याचख्यौ च
जयादित्यः–'चत्वार एव वर्णाश्चातुर्वर्ण्यम् । चातुराश्रम्यम्। त्रैलोक्यम्' इत्यादि।
[^५.] 'पावयन्तु' इत्येतत् क्वचिन्न पठ्यते ।
[^६.] ' प्रणेत्री सरस्वती' इति पा. ।
रत्रयतत्प्रयोजनज्ञानदानेन सज्जीवानुज्जीवयितुं वायुस्तुतिं चिकीर्षुश्चिकीर्षि-
तार्थाविघ्नपरिसमाप्त्यादि[^१] प्रयोजनसाधकम्,[^२] 'आशीर्नमस्क्रिया वस्तुनिर्देशो
वाऽपि तन्मुखम्' इत्याशीराद्यन्यतमस्य प्रबन्धमुखलक्षणत्वात् प्रबन्धमुखे
शिष्यशिक्षणार्थमाशीर्वादरूपं मङ्गलमादावङ्गीकरोति - श्रीमद्विष्णिवति[^३] ॥
श्रीरस्यास्तीति श्रीमान् । 'तदस्यास्त्यस्मिन्निति मतुप्' (अ.सू.५.२.
९४) । लक्ष्मीसमेतः । स चासौ विष्णुश्च । तस्य अङ्ग्री । तयोर्निष्ठा नितरामव-
स्थितिः । सैवातिगुणः । तेन गुरुतमाः। ते च ते श्रीमदानन्दतीर्थाश्च । त्रयो
लोकाः त्रैलोक्यम् । चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञ्[^४] । तस्याऽचार्याः ।
श्रीमदानन्दतीर्था एव त्रैलोक्याचार्याः । तेषां पादौ । तावेवोज्ज्वलजलजे ।
तत्र लसन्तः भासमानाः । ते च ते पांसवश्च । एतादृशाः पादपांसवः अस्मान्
पुनन्तु पावयन्तु[^५] विगलितकलुषान् कुर्वन्त्विति वाक्ययोजना । क्र्यादिकात्
'पूञ् पवने' इत्यस्माद्धातोः 'एरु:' (अ.सू. ३.४.८६) इत्युत्वे कृते आशिषि
लोट् प्रथमपुरुषबहुवचनम् । पुनस्तानेव विशिनष्टि । यत्र पांसुषु । वाचां प्रणेत्री
स्रष्ट्री[^६
स्मृतीतिहासपुराणादीनां द्विजफणिपमृडेन्द्रादीन् प्रत्युपक्रमोपसंहारादिषड्विध-
तात्पर्यलिङ्गैर्मुख्यवृत्त्या श्रीविष्णुपरत्वेन प्रणेत्री प्रतिपादयन्ती । तदुक्तं
ब्रह्माण्डे–-
'यस्याः प्रसादात् परमं विदन्ति शेषः सुपर्णो गिरिशः सुरेन्द्रः ।
'माता च यैषां प्रथमैव भारती सा द्रौपदी नाम बभूव भूमौ' इति ।
[^१
[^२
[^३
[^४

[^५
[^६