This page has been fully proofread once and needs a second look.

निघ्नानो[^] नोऽस्तु विघ्नौघं भग्नभक्ताघको हरिः ।
निघ्नो निरस्तदोषाणां भग्नभूतेशकार्मुकः[^] ॥ * ॥
 
यो वै बैकुण्ठभर्तुः सकलसुरशिरःश्रेणिसल्लाळिताज्ञां
धृत्वा भूमिं च गत्वा श्रुतिनिकरपुराणादिभिर्वादिवृन्दम्।
जित्वा भाष्यं च कृत्वा प्रकरणनिकरं[^] स्थापयामास[^] तत्वं
मध्वाचार्याय तस्मै नतशिरसि भवत्वेष बद्धोऽञ्जलिर्मे5[^५] ॥ * ॥
 
व्याख्यानच्छद्मना मुख्यप्राणसद्गुणचिन्तानाम्[^]
करोम्यालोक्य[^] पूर्वेषां व्याख्यानं बुद्धिशुद्धये ॥ * ॥
 
अस्या[^] वायुस्तुतेर्गुढभावार्थाय यथामति ।
वेदात्मयतिना व्याख्या क्रियतेऽन्वयवर्त्मना[^] ॥ * ॥
 
इह हि पूर्वापरदक्षिणोत्तराशाध्वनि निरर्गळकीर्तिस्तत्वप्रदीपिकाकर्ता सकल-
 
[^.] निपूर्वो हन्तिरात्मनेऽपिभाषः । प्रयोगात् । तथाहि राजराजेश्वरयतिः- 'गत्वाऽरण्यं मुनिवरयुतस्ता-
टकां यो निजघ्ने' इति । अथवा परस्मैभाषादेव हन्तेरयं चानश् । 'ताच्छील्यवयोवचनशक्तिषु
चानश्'(अ.सू.३.२.१२९) । तेन भागवतो भक्तविघ्ननिरसनताच्छील्यं तत्सामर्थ्यं च द्योतितम् ।
'विघ्नानः' इति पा. । इदमाद्यपद्यतया च क्वचित् पठ्यते ।
 
[^.] 'भुग्नभूतेशकार्मुकः' इति तु ह्रद्यम् । द्वितीयचरणे सकृद्भग्नपदप्रयोगात्।
 
[^.] प्रकरणनिकरं च कृत्वा ।
 
[^.] 'ख्यापयामास' इति पा. ।
 
[^.] इतः परं 'व्याख्यानच्छद्मना' इत्यतः पूर्वं क्वचिदनुष्टुबेकाऽधिका पठ्यते । आनुपूर्वी तु गलितत्वान्न
स्फुटमवगम्यते। '....वृन्दैरहं मन्दः सन्दोहं स्तावयामहे (?) । प्राचां विपश्चिताम्…………' इतीयत्
प्रतीयते।
 
[^.] 'मुख्यप्राणस्य गुणचिन्तनाम्' इति पा . ।
 
[^.] 'करोम्यालोच्य' इति पा . ।
 
[^.] लिखितकोशे 'अस्य वायुस्तुतेः' इत्यस्ति । न किल न लिपिकाराः प्रमाद्यन्ति । वायोर्यत्र स्तुतिः कृता
तस्यास्य ग्रन्थस्येति वा ।
 
[^. ] 'अन्वयवर्तिना' इति पा . ।