This page has been fully proofread once and needs a second look.

श्लो. १
 
निघ्नानो नोऽस्तु विघ्नौघं भग्नभक्ताघको हरिः ।

निघ्नो निरस्तदोषाणां भग्नभूतेशकार्मुकः
 

 
९.
 
॥ * ॥
 
यो वै बैकुण्ठभर्तुः सकलसुरशिरःश्रेणिसल्लाळिताज्ञां
 

धृत्वा भूमिं च गत्वा श्रुतिनिकरपुराणादिभिर्वादिवृन्दम्।
 

जित्वा भाष्यं च कृत्वा प्रकरणनिकरं स्थापयामास' तत्वं

मध्वाचार्याय तस्मै नतशिरसि भवत्वेष बद्धोऽञ्जलिर्मे5 ॥ * ॥
 

 

 
व्याख्यानच्छद्मना मुख्यप्राणसद्गुणचिन्तानाम्
६ ।
करोम्यालोक्य पूर्वेषां व्याख्यानं बुद्धिशुद्धये
 
॥ * ॥
 

 
अस्यावायुस्तुतेर्गुढभावार्थाय यथामति ।

वेदात्मयतिना व्याख्या क्रियतेऽन्वयवर्त्मना
 
॥ * ॥
 
11 * 11
 

 
इह हि पूर्वापरदक्षिणोत्तराशाध्वनि निरर्गळकीर्तिस्तत्वप्रदीपिकाकर्ता सकल-

 
१. निपूर्वो हन्तिरात्मनेऽपिभाषः । प्रयोगात् । तथाहि राजराजेश्वरयतिः- 'गत्वाऽरण्यं मुनिवरयुतस्ता-

टकां यो निजघ्ने' इति । अथवा परस्मैभाषादेव हन्तेरयं चानश् । 'ताच्छील्यवयोवचनशक्तिषु

चानश्'(अ.सू.३.२.१२९) । तेन भागवतो भक्तविघ्ननिरसनताच्छील्यं तत्सामर्थ्यं च द्योतितम् ।

'विघ्नानः' इति पा. । इदमाद्यपद्यतया च क्वचित् पठ्यते ।
 

 
२.
 
'भुग्नभूतेशकार्मुकः' इति तु ह्रद्यम् । द्वितीयचरणे सकृद्भग्नपदप्रयोगात्।
 

 
३. प्रकरणनिकरं च कृत्वा ।
 

 
४. 'ख्यापयामास' इति पा
 
. ।
 
५. इतः परं 'व्याख्यानच्छद्मना' इत्यतः पूर्वं क्वचिदनुष्टुबेकाऽधिका पठ्यते । आनुपूर्वी तु गलितत्वान्न

स्फुटमवगम्यते। '....वृन्दैरहं मन्दः सन्दोहं स्तावयामहे (?) । प्राचां विपश्चिताम्…………' इतीयत्

प्रतीयते।
 

 
६. 'मुख्यप्राणस्य गुणचिन्तनाम्' इति पा. ।
 
. ।
 
७. 'करोम्यालोच्य' इति पा
 
. ।
 
८. लिखितकोशे 'अस्य वायुस्तुतेः' इत्यस्ति । न किल न लिपिकाराः प्रमाद्यन्ति । वायोर्यत्र स्तुतिः कृता

तस्यास्य ग्रन्थस्येति वा ।
 

 
९.
'अन्वयवर्तिना' इति पा. ।
 
4
 
. ।