2023-02-20 12:10:29 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
ॐ
श्रीमद्-विष्ण्वङ्घ्रि-निष्ठातिगुण-गुरुतम-श्रीमदानन्दतीर्थ-
त्रैलोक्याचार्य्य-पादोज्ज्वल-जलज-लसत्-पांसवोऽस्मान् पुनन्तु ।
वाचां यत्र प्रणेत्री त्रिभुवन महिता शारदा शारदेन्दु-
ज्योत्स्ना-भद्र-स्मित-श्री-धवळित-ककुभा प्रेम-भारं बभार ॥ १ ॥
(कविकर्णामृतम्)
ॐ ॥ चिदानन्दतनुं वन्दे सदा पद्मालयान्वितम् ।
वदावदं[^१] च सूत्राणां पदा मितजगत्त्रयम्[^२] ॥ * ॥
त्यागी चाशेषदोषाणां भोगी बहुगुणोन्नतेः ।
रागी[^३] विश्वस्य भासाऽयं शार्ङ्गी कुर्यात् सुखोदयम्[^४] ॥ * ॥
[^१.] वदावदमिति वक्तारम् । प्रणेतारम् । 'चरिचलिपतिवदीनां वा द्वित्वम्' (वा.६.१.१२) ।
[^२.] पादत्रयस्याप्यैकात्म्यात् पदेत्येकवचनम् । यद्वा सकलमपि विश्वमस्य पादैकपरिमितमित्याह– पदा
मितजगत्त्रयमिति। 'पादोऽस्य विश्वा भूतानि' इति हि श्रुतिः ।
[^३.] तृतीयचरणोऽयमप्रकटार्थः । लिपिकृत्प्रयुक्तः पाठव्यत्ययोऽपि सम्भाव्यते । सवितरि सन्निधाय स्वभासा
रागी रञ्जनशील इति तु भवेत् । 'तस्य भासा सर्वमिदं विभाति' इति श्रूयते हि । रागो रञ्जनम् ।
'सम्पृच–'(अ.सू.३.२.१४२) इत्यादिना शीलार्थे घिनुण् ।
[^४.] 'सुखोन्नतिम्' इति पा.
श्रीमद्-विष्ण्वङ्घ्रि-निष्ठातिगुण-गुरुतम-श्रीमदानन्दतीर्थ-
त्रैलोक्याचार्य्य-पादोज्ज्वल-जलज-लसत्-पांसवोऽस्मान् पुनन्तु ।
वाचां यत्र प्रणेत्री त्रिभुवन महिता शारदा शारदेन्दु-
ज्योत्स्ना-भद्र-स्मित-श्री-धवळित-ककुभा प्रेम-भारं बभार ॥ १ ॥
(कविकर्णामृतम्)
ॐ ॥ चिदानन्दतनुं वन्दे सदा पद्मालयान्वितम् ।
वदावदं[^१] च सूत्राणां पदा मितजगत्त्रयम्[^२] ॥ * ॥
त्यागी चाशेषदोषाणां भोगी बहुगुणोन्नतेः ।
रागी[^३] विश्वस्य भासाऽयं शार्ङ्गी कुर्यात् सुखोदयम्[^४] ॥ * ॥
[^१
[^२
मितजगत्त्रयमिति। 'पादोऽस्य विश्वा भूतानि' इति हि श्रुतिः ।
[^३

[^४