This page has been fully proofread once and needs a second look.


 
पुनन्तु ।
 

 
श्रीमद्-विष्ण्वङ्घ्रि-निष्ठातिगुण-गुरुतम-श्रीमदानन्दतीर्थ-

त्रैलोक्याचार्य्य-पादोज्ज्वल-जलज-लसत्-पांसवोऽस्मान्
पुनन्तु ।
वाचां यत्र प्रणेत्री त्रिभुवन महिता शारदा शारदेन्दु-

ज्योत्स्ना - भद्र - स्मित - श्री - धवळित- ककुभा प्रेम-भारं बभार ॥ १ ॥
 

 
(कविकर्णामृतम्)
 

 
ॐ ॥ चिदानन्दतनुं वन्दे सदा पद्मालयान्वितम् ।

वदावदं' च सूत्राणां पदा मितजगत्त्रयम्
 
२ ॥ * ॥
 
त्यागी चाशेषदोषाणां भोगी बहुगुणोन्नतेः ।

रागी` विश्वस्य भासाऽयं शार्ङ्ग कुर्यात् सुखोदयम्"
 
॥ * ॥
 
३.
 
॥ * ॥
 

 
 
१. वदावदमिति वक्तारम् । प्रणेतारम् । 'चरिचलिपतिवदीनां वा द्वित्वम्' (वा.६.१.१२) ।
 

 
२.
 
पादत्रयस्याप्यैकात्म्यात् पदेत्येकवचनम् । यद्वा सकलमपि विश्वमस्य पादैकपरिमितमित्याह– पदा

मितजगत्त्रयमिति। 'पादोऽस्य विश्वा भूतानि' इति हि श्रुतिः ।
 

 
३.
तृतीयचरणोऽयमप्रकटार्थः । लिपिकृत्प्रयुक्तः पाठव्यत्ययोऽपि सम्भाव्यते । सवितरि सन्निधाय स्वभासा

रागी रञ्जनशील इति तु भवेत् । 'तस्य भासा सर्वमिदं विभाति' इति श्रूयते हि । रागो रञ्जनम् ।

'सम्पृच–'(अ.सू.३.२.१४२) इत्यादिना शीलार्थे घिनुण् ।
 

 
४. 'सुखोन्नतिम्' इति पा.