This page has been fully proofread once and needs a second look.

नरहरिस्तुतिः
 
सप्तमरसोपमम् । का कथाऽष्टमरसोपमस्योत्तमस्य । यस्य तव रोषस्य

उत्करेण सञ्चयेन शत्रुक्षपणदक्षयोः नेत्रयोः कुटिलौ कुञ्चितौ प्रान्तावपाङ्गौ ।

तत उत्थितस्याग्नेः स्फुरद्भिः खद्योतकीटोपमैर्विस्फुलिङ्गैः कणैर्भस्मीकृता

ब्रह्मेशशक्रादीनामुत्कराः सङ्घाताः । 'प्रकरगणौघसङ्घसङ्घातव्रातकुलोत्कराः'

इति च ॥ * ॥
 

 
इमामाचार्यगोविन्दः श्रीमन्नरहरिस्तुतेः ।
 

वितेने विमलां व्याख्यां विनेयजनवाञ्छया ॥ * ॥

 
इत्याचार्यगोविन्दस्य कृतिषु नरहरिस्तुतिचन्द्रिका समाप्ता