This page has not been fully proofread.

नरहरिस्तुतिः
 
स्विति नखरा अपि चिदानन्दमया इत्याह । दारितबहिरन्तररातितया निरातङ्केन
दूरविद्राविताविद्याध्वान्तेन, तत एव शान्तेन भगवदेकान्तेन बहुगुणग्राहितया
प्रविततेन च मनसा भूरिभागधेयैर्ब्रह्मादिभिर्भाविताः ध्याताः । 'अभियाति-
ररातिरमित्ररिपू' इति च ।
 
अथ च हे श्रीमत्कण्ठीरवास्य, प्रतत सर्वंगत, दारितारातितया दूरनिरस्त -
सज्जनहृदयान्धकार, शान्त भक्तानामभयप्रद, सर्वग्राहितया प्रविततेन, प्रकृष्टे
विष्णौ त्वयि ततेन वा मनसा, भूरिभागैर्ध्यातास्ते सुनखराः पान्त्वस्मान् ।
अथच प्रविततमनसा प्रवितततमया नासया उपलक्षित । उदश्चितक्षतजगन्धेन
विकचघोण । 'ब्रह्म ततमम्' इतिवदेकतकारलोपः । 'लोप: समाने' इति
च सूत्रम् । तदेतदृचाऽभ्युक्तम्- 'सिंहं नसन्त मध्वो अयासं हरिमरुषं दिवो
अस्य पतिम्' (ऋ.९.८९.२) इति । सिंहं नसन्त मध्व इति । नृसिंहं नसते
मध्व इत्युक्तं भवति । नस गतौ । स्तोतुं मनसा जगाम । बिन्दुरवधारणे ।
भीमत्वेऽपि नृसिंहं मनसा नसमानो मन्युसूक्तं ददर्श । रूपत्रयसमाहाराय
च नसन्तेति बहुवचनम् । अयासमिति । अनायासं पुरुहूतवैरिविपाटन-
क्रियायाम् । हरिमिति । अरातीन् ध्वान्तं च हरति नृहरिः । अरुषमिति ।
शान्तमित्युक्तं भवति । दिवो अस्य पतिमिति । देवगणस्य पातारमित्युक्तं
भवति । अत एव देवगणैर्भावितम् । 'विस्तृतनसोऽन्तः यस्य तं नसन्तम् ।
सुपो लोपः' इति तु युक्तिमल्लिकायाम् ॥ * ॥
 
लक्ष्मी कान्त समन्ततोऽपि कलयन् नैवेशितुस्ते समं
पश्याम्युत्तम-वस्तु दूर-तरतोऽपास्तं रसो योऽष्टमः ।
यद्रोषोत्कर- दक्ष नेत्र-कुटिल प्रान्तोत्थिताग्नि- स्फुरत्-
खद्योतोपम-विस्फुलिङ्ग-भसिता ब्रह्मेश-शोत्कराः ॥ २ ॥
 
-
 
द्वितीयं प्रसङ्गान्तरे भगवत्पादप्रबद्धं पृथक् स्तोत्रमिति भाति । कलयन्
अन्वेषयन् । उत्तमं वस्तु दूरापास्तं यथा रसो योऽष्टमः । सममेव नोपलभामहे
 
2