2023-02-17 11:03:11 by ambuda-bot
This page has not been fully proofread.
पान्त्वस्मान् पुरुहूत- वैरि-बलवन्मातङ्ग-माद्यद्-घटा-
कुम्भोच्चाद्रि-विपाटनाधिक-पटु- प्रत्येक बज्रायिताः ।
श्रीमत्-कण्ठीरवास्य-प्रतत-सु-नखरा दारिताराति दूर-
प्रध्वस्त-ध्वान्त-शान्त-प्रवितत-मनसा भाविता भूरि-भागैः ॥
॥ १॥
ॐ ॥ हरिचरणं गुरुचरणं परिचरणेन प्रसाद्य भवतरणम् ।
कृतमुखहृदयाभरणं वितन्यते नरहरिस्तवनम् ॥ * ॥
भगवत्पादकृता नरहरिनखस्तुतिराद्यं पद्यम् । अपूर्वा चेयं छन्दोविचितिः ।
शार्दूलविक्रीडितेन पूर्वार्द्धं निबबन्ध । स्रग्धरया चोत्तरार्द्धम् । मसजसततगाः
शार्दूलविक्रीडितम् । मरभना यत्रयं च स्रग्धरा । अपूर्वेण चानेन च्छन्दोविलासेन
रक्षोवक्षोविपाटने विचक्षणं नृहर्यक्षस्य शार्दूलविक्रीडितं कटाक्षयति । अथ
पुनरन्त्रस्रग्धरां नरहरिमूर्तिं च ।
पुरन्दरवैरिणोऽसुरा एव बलवन्मातङ्गाः । 'मातङ्गद्विरदद्विपाः' इत्यभि-
धानम् । तेषां माद्यन्ती घटा । 'बहूनां घटना घटा' इति च । तस्याः करोटि-
कल्पाः कुम्भा एव उच्चाद्रयः । 'मूर्ध्नि पिण्डौ स्मृतौ कुम्भौ' इति च । तेषां
विपाटने वज्रवत् पटवः । तदपि न समष्टितः । प्रत्येकं वज्रायिताः । तादृशाः
श्रीमतः कण्ठादुपरिकण्ठीरवस्य प्रतताः सुनखरा अस्मान् पान्तु । 'हर्यक्षो
नखरायुधो मृगरिपुः सिंहश्च कण्ठीरवः' इति च । श्रीमन्तो वा नखराः ।