2023-02-19 09:06:29 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
४१
अत एवं विचिन्तयामास-
विरुद्धं द्वयमपि तथ्यमित्यसम्भवं वचः ।
यदि मायावादः सत्यः, असत्यस्तर्हि तत्ववादः ।
यदि तत्ववादस्तथ्यः, अतथ्यस्तर्हि मायावादः ।
इदं चेद् दैवमद आसुरम् । अदश्चेद् दैवमिदमासुरम् ।
त्रिविक्रमपण्डितः शास्त्रसारं माथम्माथमन्ते कृतनिश्चयो बभूव तत्ववाद एव
सत्यस्य पन्थाः । सात्विको दैवः पन्थाः । अतः स निष्ठुरमाह- मायावाद
इति मिथ्यावादोऽयम् । तामसानामासुरः पन्थाः । एष पाषण्डवादः ।
तमनुसृत्य मा मुधा पाषण्डिनो भूतेति । लोककारुण्यमिदम् । नायं परमत-
द्वेषः । अविद्यानिरासोऽपि हि साधनमार्गः । 'अविद्यया मृत्युं तीर्त्वा
विद्ययाऽमृतमश्नुते' ॥
अतो जागरयति पण्डिताचार्य :- आचार्यमध्वस्य तत्ववादसिंहनादं श्रुत्वाऽपि
मायिगोमायूनामशिवे रुते मा रुचिं कार्ष्
सोऽयं तस्य हृदयान्तराळादागतोऽदम्यः सन्देशः । तं निरोद्धुमप्रभवन्
साधुलोकमुद्दिधीर्षुरेवमुज्जगार । अत एव सात्विक स्तोत्रे निबबन्ध ॥
अथापि मायावादिनामिदं स्तोत्रं तोत्रमिव वेदनां जनयामासेति तु वास्त-
वम् । तस्यायं परिणामः– वायुस्तुतिखण्डनपरायाः श्रीमध्वनिन्दामात्रपर-
मार्थाया ईशानस्तुतेरुद्भवः । सत्यस्य सौधमारोढुं परस्परनिन्दानिःश्रेणिका ।
ईदृशामसूयाकाव्यानामुपेक्षैव भेषजम् । पण्डिताचार्यस्य निष्ठुरा सत्यनिष्ठा
नूनमभिनन्दनीया । किं करणीयम् ? बुक्कन्ति गोष्ठश्वाः ॥
वेदान्ते दाक्षिण्यपरता नाम स्वपरवञ्चनैव किल । धर्मराजस्येव धर्मे दाक्षिण्यं
न पण्डिताचार्यस्य पन्थाः । किन्तु भीमसेनस्येव नैष्ठुर्यम् ॥
21