This page has not been fully proofread.

स्तुतिभू.
 
सत्यं चेद् गम्यं सत्येनैव पथा गन्तव्यम् । असत्येन पथा चिरं पतन्नपि न
सत्यमाप्नुयात् ॥
 
येनकेनापि पथा गच्छेत्, गम्यं त्वेकमेवेति तु वञ्चनार्थोऽयमुपन्यासः ।
गम्यमिव पन्था अपि निश्चित एव ।
 
साधनमिति न वृत्तभ्रमणम् । येन यथाकथाच पतन्नपि गम्यमेवानुपतेत् ।
साधनं नाम संसारचक्रभ्रमणमतिहाय सरळरेखायां निरन्तरमूर्ध्वगमनम्,
यावता गम्यलाभः । परस्परं विरुद्धायां दिशि पततोर्न कदाऽपि समागमः
स्यात् । ततो दूराद् दूरतरं यातः । दूरत एव सर्वदा भवतः । यदाह भगवान्
वासुदेवः-
' द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एवच' इति ।
 
एको दैवः पन्थाः । अपर आसुरः ।
 
एको विद्यायाः । अपरश्चाविद्यायाः ।
 
एकः सत्यस्य । अपरोऽसत्यस्य ।
 
एक: प्रकाशस्य । अपरस्तमसः ।
 
विभिन्नः पन्थाः । विभिन्नं च गम्यम् ।
 
पण्डिताचार्यः पूर्वं मायावादिकुले जातः । प्रथमं मायावाद एव सत्यस्य पन्था
इति श्रद्दधान एव जीवनं यापयामास न केवलम् । स्वयं मायावादस्य प्रवक्ता
मायावादिनामग्रणीर्नायकवास ॥
 

 
ततः कदाचिदस्य तत्ववादः पर्यचीयत । पण्डिताचार्यस्तेन गाढमाकृष्ट-
चेताः श्रीमध्वस्यान्तरङ्गशिष्यो बभूव । अनुबभूव च तत्ववादसुषमाम् । तत
एवं निर्दधार– तत्ववाद एव सत्यस्य पन्थाः । सात्विकः पन्थाः । विद्यायाः
पन्थाः । प्रकाशस्य पन्थाः । उन्नयनस्य दिव्यः पन्था इति ॥