This page has not been fully proofread.

संसदियं कृतज्ञतामर्पयति
 
गहनार्थां श्रीवायुस्तुतिं प्राचीनटीकयोपबृंहितां साधु संशोध्य,
स्वकृतया नवीनटीकया च संयोज्य ग्रन्थमिमं सम्पादितवते
श्रीमते पद्मश्रीप्रशस्तिभाजनाय डा. बन्नञ्जेपदोपाह्वाय
आचार्यगोविन्दाय ।
 
गणकयन्त्रद्वारा लिपिमुद्राङ्कनेन निर्व्याजमुपकृतवते विपश्चिते
श्रीमते कड्डीपदोपाह्वाय बदरीनारायणाचार्याय ।
 
अक्षरशोधनकर्मणि सहकृतवते श्रीमते विजयसिंहाय कृष्ण-
राजाय च ।
 
पुस्तकस्यास्य मुखपत्रविन्यासकर्मणि दर्शितकौशलाय
चित्रकलापरिणताय श्रीमते के. एम्. शेषगिरिशर्मणे ।
मनोज्ञमुद्रणकर्मणि कृतसहकाराय 'राज्प्रकाश् प्रिण्ट्स्'
मुद्रणालयाधिकृताय श्रीमते श्रीप्रकाशाय ।
 
ग्रन्थमेतं क्रीत्वा पिपठिषुभ्यः सर्वेभ्यश्च सहृदयेभ्यः ।
 
रजतपीठपुरम् (उडुपि)
 
शा.श. १९३३, खरसंवत्, वै. शु. त्रयोदशी
 
15.4.2011]
 
स्तुति-
तत्वसंशोधनसंसत्
 
श्रीहृषीकेशतीर्थसंस्थानम्
 
श्रीपलिमारुमठ: