This page has not been fully proofread.

स्तुतिभू.
 
स्तोत्रान्त एतदुवाच - प्रथमं विष्णुस्तुत्या 'स्तुतिमकृत हरे:', अथचानया
स्तुत्या 'स्तुतिमकृत वायुदेवस्य च' इति ॥
 
मम तु प्रतिभाति - अयमेव पण्डिताचार्याभिमतो मुख्योऽर्थ इति । तदेभि-
र्बहुभिः कारणैद्वर्चर्थतया व्याख्यानाय प्रयतनं व्यर्थः श्रम एव हि केवल-
मिति । शुद्धप्रज्ञा जानीयुरेव - नेदं द्वैयर्थ्यम्, किन्तु वैयर्थ्यं शेमुषीप्रस-
रस्येति ॥
 
अथ केचिदर्वाचीना आदृतचीना आशङ्कन्ते । स्तोत्रेऽस्मिन् पण्डिताचार्यो
मायावादं च मायावादिनश्च तेषामाचार्यं च सटट्टरं विकटकटुवचनैः प्रकटं
न्यक्करोति । सात्विके, तत्रापि मन्त्रतुल्यतया पठ्यमाने स्तोत्रे कथमियं परुषा
रुशती वाणी? कथमिदं विभाषणं स्यात् सतां विभूषणम् ? कथमियं
कर्णपाटना पोटना? सात्विके पथि पततां कथमुपपन्नमिदं परेषां परि-
हासचापलमिति ॥
 
उपपन्ना शङ्का । उपपन्ना पृच्छा । बहवः पन्थानः । येनकेनापि पथा यथामति
गम्यताम् । प्राप्नुवन्ति गम्यम् । यतः सर्वेऽपि पन्थान एकमेव गम्यं गमयन्तीति
वदतां नेदं वचो जीर्येदिति च सत्यम् ॥
 
ते गदन्ति– हरिर्वा स्यात्, हरो वा स्यात् । अन्ततः सर्वमेकम् । द्वैतं वा
स्यात्, अद्वैतं वा स्यात् । अन्ततः सर्वमेकम् । एकं वा स्यात्,
अनेकं वा
स्यात् । अन्ततः सर्वमेकम् ॥
 
तदिदं सर्वमद्वैतावरणस्यान्तरपिधाय श्रोतॄन् विस्मापयद् वञ्चनजालमृते नान्यत्
किमपि ॥
 
अन्यादृशी बभूव प्रतनानां श्रद्धा । अन्यादृशो विश्वासः ॥
 
तेषां मते पुनरन्यः सत्यस्य पन्थाः । अन्य एवासत्यस्य ॥
 
ते सशपथमुद्धृतबाहुयुगमैरयन्त-'सत्यमेव जयति नानृतं सत्येन पन्था विततो
देवयानः' इति ॥
 
20