2023-02-19 08:51:39 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
सन्ति लिकुचवंशीयै रचिता बह्व्यो वायुस्तुतयः । पाश्चात्या बहवो गृहस्थाश्च
यतयश्च कृतिनो वायुस्तुतिमरचयन् । न केऽपि द्व्यर्थतामनुसन्दधुः । न कोऽपि
व्याकर्ता तथा व्याख्यातुं प्रायतत । तेन विज्ञायते वक्तृविवक्षाभावे न
वायुस्तुतेरपि हरिपरतावर्णनं सम्प्रदायाभिमतमिति । यत्र वायुः स्तूयते तत्र
तदन्तर्यामितया हरिश्च स्तूयत इति पर्याप्तमेतावता ॥
अतो नायमस्याः स्तुतेरपि हरिपरतावादः प्राचीनः । प्रायो व्यासराजभट्टा-
दनन्तरमेवायं द्व्यर्थताचापलारम्भः । ततः प्राक्तनाः केऽपि व्याख्यातारो न
चक्रुद्व्ययर्थतासम्भावनामपि । ततो निश्चयप्रचमेतत् यदिदमर्वाचां चपलवाचां
पण्डितानां कौशलप्रदर्शनरूपात् कपिचापलाहते नान्यत् किमपीति ॥
अथ - कथं तर्हीदमुपपद्येत 'स्तुतिमकृत हरेर्वायुदेवस्य च' इति ग्रन्थ-
कृद्वचनमिति । अयि, सावकाशं वचःकाशमालम्ब्य कूपादुत्पिपतिषति तत्र-
भवान् । नहि केऽपि प्रतनाष्टीकाकारा अस्य वाक्यखण्डस्यैतमर्थमाचक्षत ।
अयमिह ग्रन्थकृतो भावः- वायोरवतास्त्रयस्य स्तुतिर्भगवत्स्तुतिगर्भिणी च
भवतीति । आञ्जनेयस्तुत्या राममहिमा हि महीयते । भीमस्तवनेन कृष्ण-
महिमा । श्रीमध्वस्तवनेन च व्यासमहिमा । एवमन्तत इयं त्रेधाऽवतीर्णस्य
हरेरपि स्तुतिर्भवेदेव ॥
'युवयोः पादपद्मं प्रपद्ये' (२४), 'तुभ्यं च क्षेमदेभ्यः सरसिजविलसल्लोचनेभ्यो
नमोऽस्तु' (२६) इत्यादिषु साक्षाद् भगवत्स्तुतिरपि प्रास्तूयत । 'सानु-
क्रोशै:-' (३६), 'अस्तव्यस्तम्- ' (३७) इति च पद्ये समग्रं वेदव्यास-
स्तुतिरेव । अत आह हि पण्डिताचार्यः, 'हरेश्च स्तुतिमकृत' इति । तेन
तद्वचनस्योपपन्नतायै समग्राणां चत्वारिंशतः श्लोकानां द्व्यर्थतावर्णनचापलं
व्यर्थमेव साहसम् ॥
शक्यमन्यथाऽपि स वाक्यखण्डो विवरीतुम्- पण्डिताचार्यः प्रथमं विष्णुस्तुतिं
प्रणिनाय । अथ वायुस्तुतिम् । आदौ विष्णुस्तुतिः पठनीया । पश्चाद्
वायुस्तुतिः । तेनोभावपि प्रीणाते । तमेतमर्थं ग्राहयन् पण्डिताचार्य उभय-