This page has not been fully proofread.

३८
 
स्तुतिभू.
 
सन्ति लिकुचवंशीयै रचिता बह्वचोव्यो वायुस्तुतयः । पाश्चात्या बहवो गृहस्था
श्च
यतयश्च कृतिनो वायुस्तुतिमरचयन् । न केऽपि द्व्यर्थतामनुसन्दधुः । न कोऽपि

व्याकर्ता तथा व्याख्यातुं प्रायतत । तेन विज्ञायते वक्तृविवक्षाभावे न

वायुस्तुतेरपि हरिपरतावर्णनं सम्प्रदायाभिमतमिति । यत्र वायुः स्तूयते तत्र

तदन्तर्यामितया हरिश्च स्तूयत इति पर्याप्तमेतावता ॥
 

 
अतो नायमस्याः स्तुतेरपि हरिपरतावादः प्राचीनः । प्रायो व्यासराजभट्टा-

दनन्तरमेवायं द्व्यर्थताचापलारम्भः । ततः प्राक्तनाः केऽपि व्याख्यातारो न

चक्रुद्वर्थव्ययर्थतासम्भावनामपि । ततो निश्चयप्रचमेतत् यदिदमर्वाचां चपलवाचां

पण्डितानां कौशलप्रदर्शनरूपात् कपिचापलाहते नान्यत् किमपीति ॥
 
2
 

 
अथ - कथं तर्हीदमुपपद्येत 'स्तुतिमकृत हरेर्वायुदेवस्य च' इति ग्रन्थ-

कृद्वचनमिति । अयि, सावकाशं वचःकाशमालम्ब्य कूपादुत्पिपतिषति तत्र-

भवान् । नहि केऽपि प्रतनाष्टीकाकारा अस्य वाक्यखण्डस्यैतमर्थमाचक्षत ।

अयमिह् ग्रन्थकृतो भावः- वायोरवतास्त्रयस्य स्तुतिर्भगवत्स्तुतिगर्भिणी च

भवतीति । आञ्जनेयस्तुत्या राममहिमा हि महीयते । भीमस्तवनेन कृष्ण-

महिमा । श्रीमध्वस्तवनेन च व्यासमहिमा । एवमन्तत इयं त्रेधाऽवतीर्णस्य

हरेरपि स्तुतिर्भवेदेव ॥
 
7
 

 
'युवयोः पादपद्मं प्रपद्ये' (२४), 'तुभ्यं च क्षेमदेभ्यः सरसिजविलसल्लोचनेभ्यो

नमोऽस्तु' (२६) इत्यादिषु साक्षाद् भगवत्स्तुतिरपि प्रास्तूयत । 'सानु-

क्रोशै:-' (३६), 'अस्तव्यस्तम्- ' (३७) इति च पद्ये समग्रं वेदव्यास-

स्तुतिरेव । अत आह हि पण्डिताचार्यः, 'हरेश्च स्तुतिमकृत' इति । तेन

तद्वचनस्योपपन्नतायै समग्राणां चत्वारिंशतः श्लोकानां द्व्यर्थतावर्णनचापलं

व्यर्थमेव साहसम् ॥
 

 
शक्यमन्यथाऽपि स वाक्यखण्डो विवरीतुम्- पण्डिताचार्यः प्रथमं विष्णुस्तुतिं

प्रणिनाय । अथ वायुस्तुतिम् । आदौ विष्णुस्तुतिः पठनीया । पश्चाद्

वायुस्तुतिः । तेनोभावपि प्रीणाते । तमेतमर्थं ग्राहयन् पण्डिताचार्य उभय-